________________ BABIERESन मयोक्तमतिरक्ता मे भार्याऽस्ति प्रेषितस्तया / संजातमृगपुच्छा-मांसदौर्हदया परम् // 666 // तयोच्यताऽऽर्यपुत्रालमृजिम्ना त्वं हि वञ्चितः / भार्ययाऽवश्यमेवाऽसौ दुःशीलेति विभाव्यताम्॥६६७॥ मयाऽभ्यधायि मा मैवं वक्षि तस्याः सुशीलतां / विनीततैव वक्त्युच्चै-विद्वज्जनमनोहरा // 668 // ततस्तयाऽतिरक्तं मां तस्यां ज्ञात्वा वचःक्रमात् / तूष्णीभावं समालम्ब्य वेश्ययाऽस्थाग्यलक्षया // 669 // इत्याऽऽलापैश्चिरं स्थित्वा तया चूडामणिनिजाद् / मूर्ध्न उत्तार्य मन्मूर्ध्नि बद्धः प्रेमरीचिकः // 670 // अभाणीचैहि गच्छावो निजवेश्माऽर्यमाऽपि हि / पश्यापराङ्गनावेश्म यियासुरिव लक्ष्यते // 671 // तया सार्धमहं यान-मारुह्य नगरं ततः। शंख-तूर्यनिनादेन यावत् संप्रस्थितो मुदा // 672 // श्रुत्वा कलकलं तावद् राजहस्ती स्वबन्धनं / त्रोटयित्वाऽऽगमल्लोकान् मर्दयन् संमुत्रं मम // 673 / / युग्यं भवतुं'करो यावत् तेनाऽक्षिप्यत संमुखः। तावदुत्तीर्य वेगेन तत्पुरोऽहं व्यवस्थितः / / 674 // लोकश्च मम दक्षत्वमपश्यमिव पूत्कृति / करोति हा!! हतः कश्चिन् महात्माऽनेन हस्तिना // 675 / / अहं तु लाघवात्तस्य कदाचित् पादयोरधः / कदाचिदन्तयोरन्तः कदाचिद् वपुषः पुरः // 676 // कदाचित् पृष्ठतस्तस्य कदाचिदुपरि क्षणात् / कदाचिद् दूरगोऽत्यर्थ कदाचिदतिसंनिधौ // 677 // हस्तिशिक्षावशादेव नीत्वा निषीदतां (विवशतां ?) गजं / मयाऽऽरुह्यत तस्यैव स्कन्धे जयरवोद्भटम् / /