________________ नका . ACAR तं दृष्ट्वा कुर्वतीमरू कथञ्चिज्जननी मम / अप्राक्षीत् किमिदं भद्रे ! साप्राहाऽम्ब ! न किञ्चन // 485 // ततोऽप्रतीत्या मन्माता यावदाऽगात्तदन्तिकं / तावत्तयाऽसिपत्रेण हत्वा मर्मणि पातिता // 486 // तां पतन्तों समालोक्य मातरं भुवि संभ्रमाद् / आवामपि गतौ तस्याः समीपं तूर्णमेव हि // 487 / / ततोऽस्मासंभ्रमात्तस्याः सोऽकानकुलकोऽपतत् / तं दृष्ट्वा हा ! स एवाय-मावाभ्यामित्यचिन्त्यत॥४८८॥ यस्माद् दूरेण नश्यन्ति जन्तवः पापभीरवः / तदेव सुतरां तेषा-मग्रे गत्वाऽवतिष्ठते / / 489 // अनर्थपुञ्ज इत्येवं इदे क्षिप्त्वा किलाऽऽगती। आवां यावन्महाऽनर्थ-कार्यभूत् सुतरामयम् / / 490 // तत्क्रुध्यावोऽधुना कस्मै दृष्ट्वेक्चेष्टितं विधेः / धर्म एव परं कर्तु-मावयोयुक्तिसङ्गतः // 491 // इत्याऽऽक्रन्य चिरं-मर्मप्रहारगतजीवितां / दग्ध्वा च मातरं दवा भगिन्यै निजसंपदम् // 492 // प्रत्यपद्यत धर्मोऽय-मावाभ्यामित्थमीदृशं / सौम्य ! पूर्वानुभूतं मे तद्भयं स्मृतिमागतम् // 493 // तभिशम्याऽभयेनोच्चै-विस्मयाऽऽकुलचेतसा / अभाणि भगवन्नेवं प्रायोऽर्थोऽनर्थकारणम् // 494 // यथप्यतिप्रियो लोकै-विभवः परिभाब्यते / तथाप्यनर्थ एवाऽय-मनर्थोत्पादकत्थतः // 495 // निर्ययावन्ययामेऽथ प्रतिजागरितुं मुनिः / सुव्रतः सोऽपि तं दृष्ट्वा हार त्रासादकम्पत // 406 // महो!! महाभयं कीग ब्याण इत्यवीविशद् / ऊचेऽभयेन तन्त्वा कुत्ता साधो ! महाभयम् // 417 //