________________ मणिपति चरित्रतम् हारकथा जातिस्म नकम्. ख्यन्त भयोमानाऽथ सता ॐERECOECERSITENCE मौक्तिकच्छिद्रमध्येन द्वितीयान्तेन निर्ययुः। तथा यदा बभूवाऽसौ हारः पूर्ववदेव हि // 420 // तदेव मणिकारस्य शिरः प्रस्फुटितं तथा / राज्ञेऽपितः सुतः हार शेषं मूल्यं न चापि तु // 421 // मणिकारोप्यसौ मृत्वा तत्रैव नगरे पुनः / वानरोऽभूत् कर्मदोषाद् भ्राम्यंश्च स्वगृहं ययौ // 422 // तद्गृहं तान् पुत्रादीन् पश्यन्नेव क्षणादसो / जातिस्मरणतोऽत्यर्थ मूर्छया न्यपतद् भुवि // 423 // स्वस्थीभूय ततस्तेन स्वज्ञानाऽथ सुताग्रतः / आलिख्यन्ताऽक्षराण्येता-न्यहं स भवतां पिता // 424 // तथाऽलिख्यन्त भूयोऽपि वर्णा:वः पुत्रकाः किमु ? हारसन्धानमूल्यं त-पछेषं भूभुगदानवा? // 425 // तैरूचे दत्तवान्नैष भूपोऽस्मभ्यं विना त्वया / तच्छुत्वा स कपी रोषात् तं हारं हर्तुमुद्यतः // 426 / / अन्यदा चेल्लणा देवी, वनान्तः सर आविशत् / चेटीपटलके न्यस्य हाराघाऽऽ भरणोचयम् // 427 // चेट्यप्यशोकवृक्षाऽधः पटलं मूनि निधाय तत् / स्थिताऽधः कपिना हारं तं वीक्ष्येति व्यचिन्त्यत४२८॥ गृहीत्वा त्रोटयाम्येन-माहोश्वित् पुनवेश्मनि / क्षिपाम्युताष्टवीमध्ये नीत्वाऽदृश्यं करोम्यहम् // 429 // किमेभिरथवाऽलीकै-श्चिन्तितम प्रयोजन ? / पुत्रेभ्य एव नीरवाह-मर्पयाम्येष आदराव // 430 // इति संचिन्त्यकपिना शाखया एत्य पाणिना / जगृहेऽसौ तथा चेट्या यथा जज्ञे न शून्यया // 431 / / गृहीत्वा तं ततोऽलक्ष्यो लोकैरपि शनैः शनैः / ज्येष्ठायाऽर्पितवांस्तूण हारं पुत्राय वानरः // 432 // // र /