________________ मणिपति |२०॥मा RECAAAAAAA सा प्राह किं प्रभोऽलिकैः प्रतारयितुमिच्छसि / यदि स्यादेकदैव स्या-दाऽऽवयोमत्युरुच्यताम् // 394 // ततोऽतिस्नेहपाशेन बद्धो देवीवचोऽन्यथा / अशक्तः कर्तुमुर्वीशः श्मशानेऽचीकरचिताम् // 395 // तत्रैव कथयिष्यामि ब्रुवन्नेवं महीपतिः देव्या सार्य कृतस्नानो निर्ययौ नगराइहिः // 396 // तत्रैकयाऽजया मार्गे बस्तोऽभाणि यवोत्कराद् / मदर्थ पूलिकामेका-मेतस्मादानय प्रिय ! / / 397 // बस्तेनाक्तं यवानतान् ब्रह्मदत्तस्य वाजिनः। चरन्त्यतो न लास्यामि रक्षकेभ्यो विभेम्यहम् // 398 // सा प्राह दास्यसे मह्यं न चेत् त्यक्ष्यामि जीवितं / यस्तोऽवोचन म्रियस्वाऽन्या भविष्यति मम प्रिया३५० सा प्राह पश्य मार्यार्थ-मेष राजा मुमूर्षति / सांप्रतं त्वं तु निस्स्नेहो मदुक्तं न चिकीर्षसि // 40 // यस्तोऽब्रवीदयं भद्रे ! मूोत्यर्थ स्वजन्मनो / यो विधित्सति वैफल्यं नाहमादक्षलक्षणः॥४०१॥ इहैव जन्मनि स्त्रीभिः कार्य किचित् परं यदि / मृतस्य तु किमेताभिः श्मशाने क्रन्दनाहते // 402 / / ततस्तादृशमालाप तयोराकर्ण्य भूभुजा / पर्यचिन्ति वरं मत्तो यस्तो यस्येदृशी मतिः॥४०३॥ अहं स्वस्या स्त्रियो वाचा मानुष्यं दुर्लभं वृथा। कर्तुमारब्धवान् बाढ-महो!! रागस्य जृम्भितम्॥१४॥ इति संचिन्त्य तत्रैव ददे बस्ताय भूभुजा / स्वाङ्गात् कनकमालाख्या पारितोषिकमुन्मुदा // 405 // झटित्येव ततस्स्थानान् निवृत्तो भूपतिस्ततो / देवीमुवाच यत्तुभ्यं रोचते तत्कुरु द्रुतम् / / 406 / /