________________ चरित्रम् मणिपति // 18 // करनाल SAXAAAAAAA मिलद्गवलयुगलोज्वलत्स्फुलिङ्गभीषणा महिषविसराः, क्वचित खनन्ति खरतरचण्डतुण्डविदारितधरणितला मुस्तास्तोमं वराहसमूहाः, ववचित्तिष्टन्ति कीचकवनस्खलितबालविच्छेदकातरा निश्चलाङ्गाश्चमर्यः, क्वचिदासते सततगतिवशचलिततरुकिसलयादपि वेपमानशरीरका रोमन्थयन्त्यः कुरङ्गनिवहाः / तस्यामहं महाटव्यां देवि तेनाऽऽशुवाजिना। नीत्वैकाकी निनिक्षिप्तः कुमार्गणेव देशिकः // 345 / / ततः श्रान्तस्ततस्तत्र समुतीर्य पिपासितः। दिनु चक्षुः क्षिपन् क्षिप्रं दृष्टवान् सजलं सरः // 346 // तच कीरशं? विपइकपकजाननं तदाऽऽश्रितालिलोचनं / रथाङनामसत्कुचं लसत्तरगयाटुक.म् // 347 // सुशस्यरोमराजिकं सुहंसनूपुराऽरवं / तरङ्गशैवलांशुकं जलावपूरमाश्रयम् / / 348 // विशिष्टदृष्टिलोभनं मनोरहराङ्गसङ्गमं / प्रसमचारुदर्शनं वरागनीघसंनिमम् // 349 // ततस्तत्र सरस्यश्वं पाययित्वा पयः पुनः। तत्तटस्थे वटे बद्ध्वा स्नानार्थ देव्यवातरम् / / 350 // हृदयं सञ्जनस्येव तज्जलं निर्मलं प्रिये / गुरोरिव वचः शीतं पथ्यं जिनवचो यथा // 351 // स्पर्शमात्रत एवोच्चै-रखिलानीन्द्रियाणि नः / प्राजिहदचकोराक्षि ! क्षणादेव मनस्तथा // 352 // ततः कृत्वा जलक्रीडा-मुत्तरीतुं कृता मतिः / यावत्ताव' या तत्र नागकन्याऽदृश्यत // 53 // तां विलोक्य मयाऽचिम्ति धौतान्धः प्रायशोऽभवद्(?)। एननिर्माप्यतेनाऽसौ न के स्वविलासिनीम् //