________________ RECAREAन पतेर्वाहनेन भवितव्यम्, अतो पलान् मोटिकयाऽपि त्वामेष समाक्रम्य वाहयिष्यति, इति मत्वा स्वत एव गत्वाऽऽलानस्तम्भ भजस्व, येन सकलकरिवराणां मध्ये जयपताकाभाग भविष्यसीति / ततः सदुपदेशोऽयमिति कृतमतिः सेचनकस्तचनाऽनन्तरमेव जगाम पुनर्नगरं, स्वयमेवाऽऽगतमवलोक्य प्र. मुदितवदनैलॊकैनिवेदितं भूभुजे-देव ! असी हस्ती स्वयमेवाऽऽगतो गेहमास्ते, तदिदं श्रुत्वा देवः प्रमाणम् / ततःगिकनरपतिना स देवाधिष्ठितोऽयमवश्यं मतङ्गजा, अन्यथा कथं स्वयमेवाऽऽगच्छेत् इति प्रमभरनिर्भरेणाऽऽग-य महामहिमाकरणपुरस्सरं स्थापितोऽसौ समस्तहस्तिस्तोमस्य मूर्नोति। तन्मुने ! यथाऽसौ सेचनकस्तैस्तापस रक्षितो वर्धितश्व, तथा तेषां महर्षीणामपकारं चकार, एवं भवानपि तथा मया इमशानमध्यदवदहनदग्धदेहः स्वगृहमानीय प्रगुणीकृतस्तथापि कृतघ्नतया मदीय एवार्थे लोभं गतः / इति हस्तिकथानकम् // * तत्त्वा तत्त्ववित् प्राह महषिर्भद्र ! नेदृशं / वक्तुं युक्तं महापुंसां विशेषेण भवादृशाम् // 291 // किं नाऽश्रावि त्वया पूर्व सुस्थितो योनकस्तथा / धनदः सुव्रतश्चैव शिवाख्यः पञ्चमो मुनिः / / 292 // येनैव कुश्चिकश्राद्ध ! ब्रूषे निशङ्कमानसः। तद्यजिनमताभिज्ञान ध्यातुमपि जानते // 293 // तथा हि-ख्यातं मगधदेशे पुरं राजगृहाऽभिधम् / तत्र श्रीश्रेणिको राजा जिनधर्मपरोऽभवत् // 294 //