________________ 1 चरित्रम् मणिपति द्भिर्यदागत्य रत्नोत्पत्तिरस्मभ्यं निवेदिता, तनुचित यूयं, वयं तु तडरणं प्रति यतेमहि' इत्यभिधानः समुदति 18ष्ठदाऽऽसनावनिपतिः, प्रगुणितं गन्धहस्तिग्रहण्यायोग्यं साधनं, ततो जगाम झटित्येव तं प्रदेश, विरचितो वा॥ 15 // रिवन्धनप्रयोगः, किंबहुना ? गृहीतोऽतिनिपुणपतिसमन्वितः पुंभिरसो सेचनककरेणुः, आनिन्ये राजगृहपत्त नं, बबन्धे दृढतराऽऽलानस्तम्भे, तुतुदेऽतिशीतांकुशपहारैरविनीततामाचरन् / ते पुनस्तद्ग्रहणमुदितमानसाः प्रत्यहं तत्समीपमुपगम्य सोल्लण्ठं जजल्पुः-भो ! भोः !सेचनक! कीदृशी तवेदानीमीयमवस्थाऽस्मदाश्रमभंसनोद्भूतकटुकफलोपभोगिनो वर्तते ?किं न स्मरसि सरसिजनिजरमणीविलासितानाम् ? न ध्यायसि सिद्धसिन्धूपकण्ठतरुगहनस्वेच्छाविहाराणां न चिन्तयसे शुचिशिशिरजलपरिपूर्णसुरसरित्सलिलमज्जनानामिति ? ततस्तदाऽऽकर्णनसमुपजातकोपपटलान्तरितलोचनयुगलः सेचनको निहन्मि एतान् अशेषान्, अहमे भिः पापैशदृशीमवस्था प्रापितः' इति रौद्राध्यवसायः सहसा त्रोटयित्वा बन्धननिगडं, भक्त्वा चाऽऽलानस्तम्भ, चूर्णयनभ्यर्णचरं महर्षिवृन्द, प्रविवेश महाऽटवीम् / ततः पुनरप्यनुपदमेव प्रधावितो वसुधाधवस्तजिघृक्षया / सोऽपि सेचनकमतङ्गजः किल देवताऽष्ठितवपुरासीत्, ततस्तया देवतया हितबुद्धया तस्मै न्यवेदि-भद्र सेचनक ! त्वयाऽन्यजन्मन्येवेश कर्माऽकारियेनास्य श्रेणिकनर -04- ACAE3%A5 A - CA