SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ कुश्चिकश्रेष्ठिनो FACAAAAबखान मुद्भूतरोषकषायितलोचनयुगल: 'कोऽयमपरो मयि प्रभवति प्रभूयते?' इतिदवलेपवशविवशो यूथाधिपेन सार्ध योडमारेभे, ततोऽतिकर्कशदशनाघातैयौवनोहततया तेनाऽसौ जरन्मतङ्गजः स्वकीयजनको, झटित्येव त्याजितःप्राणान् अधिष्ठितं करेणुकाऽन्तःपुरम्, चिन्तितं चानेन-किलाऽहं जनन्या कूटप्रयोगेण तापसाऽऽश्रममामत्य यूथाधिपभयाद्रक्षित इति श्रूयते, अतो अन्याऽप्येवं मा कार्षीदिति कृतमतिर्यभञ्ज तं तापसाश्रममसौ। ततस्तं तादृशं चेष्टितं सेचनकस्य निरीक्ष्य सक्रोधं तैस्तापस: 'पश्याऽहो !! पापस्य विलसितं, यैरेवाऽस्माभिरियतीं कोटिमाढौकितस्तानेवाऽस्मानाऽऽश्रमभंसनादिना दुर्जन इव कृतघ्नः कथयति, अतस्तथैनं विद्ध्मो यथाऽस्मदाऽऽश्रमभंसनफलमिहैव जन्मनि उपभुङ्क्ते' इति संचिन्तयद्भिः-सुरभिपुष्प-फलानि प्राभृतमादाय राजगृहं नगरमागत्य श्रेणिकराजा नाम्ना महिपतिरदर्शि / तेनाऽपि सन्मानपुरस्सरमभिदधिरे-'भो! भो!तपस्थिनः ! किमागमनप्रयोजनमिह भवताम् ?' तैरुक्तं-'राजन् ! भवानेवाऽश्रमगुरुस्तावत् साक्षादीक्षणीय इति प्र. थम प्रयोजनं, तथा यदत्र जगति किञ्चिद्रत्नमुत्पद्यते तत्किलाश्रमगुरोर्भवतीति श्रूयते, अतोऽस्माभिरटव्यां प्रकरमहिमाऽभ्रशुभ्राम्रविभ्रमो भ्रमद्गन्धहस्ती समदर्शि, स च युष्मद्ग्रहाऽहों, यदि गृहीतुं शक्यते गृयतामि| ति द्वितीयप्रयोजनमिति // तदाऽऽकर्ण्य प्रचुरतरप्रमदभरनिर्भरेणाऽभ्यधायि श्रेणिकनरपतिना-'भो ! भो महर्षयः ! चार्वनुष्ठितं भव GIRRORNSRSHASTRI स्ति
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy