________________ जाऊ साशङ्का साऽथ तद्वाक्याद् भिया वान्ति व्यधात् पुरः। सिंह्याः कःसापराधो हि निःशङ्कः स्याज्जगत्रय यावच्छावकमांसस्यार्णितान्यर्डचर्वणात् / खण्डानि तत्र वान्तितः साऽद्राक्षीत् केशरीप्रिया // 1328 // ततो निश्चित्य बुद्ध्यैवं तां शृगालीं जघान सा / सिंही चक्रे च सारङ्गया सार्ध प्रीति सुनिश्चलाम् / / तद् भो ! यथा तथा सिंद्या निर्णीता सा शृगालिका / तथा त्वमपि येनाऽऽतं तमुपालन्धुमर्हसि // इति सिंहीकथा // कुञ्चिकः समुवाचाऽथ मुने ! शीतार्तकेशरी। यादृशस्तादृशोऽसि त्वं मया नन्वधारितम् // 1331 // तत्कथा चेयम्- इहैव जम्बूद्वीपान्तर्वर्तिभारतक्षेत्रे क्षितितलालङ्कारभूतहिमवगिरिसमीपे महाँस्तापसाऽऽश्रमः समस्ति स्म / यत्र च क्वचित् पठन्ति स्म वेदान् पटुबटवः, क्वचिजपन्ति स्म मन्त्रान् महर्षयः, क्वचिदासते स्म मौनेन वाचंयमाः, क्वचिद् जुहति 'वषडिन्द्राय' इत्यादि पठन्तो न्यस्ताऽऽहुतिविधये धूमध्वजम्, क्वचित् सिञ्चन्ति स्म विपुलालवालारोपितवृक्षकास्तापसकुमारकाः, क्वचित् तिष्ठन्ति स्म मुनीनां पुरत एव विश्रब्धं रोमन्थयन्त्यो मृगाङ्गनाः। तस्यैवंविधस्याऽऽश्रम्पदस्य नातिदूर एव हिमवन्महीधरगुहाया एकस्तापसकल्पः पुमान् प्रतिवसति स्म / तस्य चाऽनवरतमहापरिचयादीदृशो भावोऽभवद्- यदुत "द्रष्टव्या आत्मवत् सर्वजन्तवः, न वक्त KR-RHPERSHBHBCORKS AISE