________________ महतीर्वारा रूढस्य वर्धके'र्मा पीपासया बाध्यता मेषः' इति शीतलीकतुमिव समुदियाय शिशिररशिमः / एवं च क्रमेण प्रहरमात्रत्रियामायामतिक्रान्तायामसौ वर्धकिनिद्रातुमारेभे / ततो वानर्याऽभ्यधायि-भद्रक ! ममोत्सङ्गे शिरो विन्यस्य विश्रब्धः स्वपिहि, अहमेव पतन्तमतो रक्षयामि त्वामिति। ततोऽसौ 'इदं करोमि' इति ब्रुवाणस्तदङ्के मूर्धानमाधाय सुष्वाप। ततस्तं सुप्तमाकलय्य किल सिंहेनाऽभ्यघायिKK वानरि ! गाढं बुभुक्षितोऽहम्, अतो मुश्चेदं मानुषरूपं भक्षणाय, सर्वदाऽहं तव वने वसन्त्या मित्रं भविष्यामि।सा प्राह-शरणागतं कथं जीवन्ती समर्पयामि ? नहि कुलोद्गताः क्वचिच्छशरणागतद्रोहिणो भवन्ति / ततस्तन्निपश्चर्य विज्ञाय तूष्णीं बभूव मृगपतिः / क्षणान्तराद् विवुद्धो वनेचरः(वर्धकिः), क्षणादूर्व तामसौ वनेचरवधू निदिवासुमुपलक्ष्य वनचर उवाच-भद्रे! त्वमपि तावत् क्षणमके मदुत्सङ्गे शिरो निधाय निद्राविनोदं कर्तुमर्हसि / ततः सापि तस्या के शिरः संस्थाप्यात्मोपमया तमप्यद्रोहिणमाकलयन्ती निराकुला सुष्वाप / अत्राऽवसरे पुनः केशरिणाऽभाणि-भद्र मानुष ! किं त्वमेतया वानर्या करिष्यसि रक्षितया ? ममाभिमुखमेतां प्रक्षिप, येनाऽहमेनां K भक्षयित्वाऽन्यत्र यामि, तवाऽपि मुत्कलः पन्था भवति / तेन पर्यचिन्ति-अहो !! युक्तमुक्तमेतेन, यदि परमाणैः स्वप्राणाः रक्ष्यन्ते किं नाऽवाप्तं मया स्यात्, अत एनां क्षिपामि, येनाऽयमनया कृतस्थितिः सन् इतोऽन्यत्र याति, अहमप्युत्तीर्य स्वकार्य करोमि, इत्ययेवं च ASSESARI