________________ समA-%ASTECXन अत्रान्तरे शुभध्याना-दचलन् कीलिकाऽदितः / क्षीणाऽऽयुजिनदासोऽसौ देवमयं समीयिवान् // 1.29 // अपतच निरालम्यं पर्यस्योपरि क्षणात् / शरीरं तस्य निर्जीवं प्रोच्चैः खाकृत्य काष्ठवत् // 1030 // तत्पातभयसम्भ्रान्ता यावत् सम्यग निरीक्षते ! ताहक्तमाक्षयात् तावद् ददर्श स्वपतिं पुरः // 1031 // हा धिग् ! ! दृष्टाऽहमेतेन सर्वरात्रमिह स्थिता / इति भीत्या गतं तस्या जीवितं पायोस्तले // 1032 // प्रच्छन्नमीदृशं कार्य कृत्वा निहोतुमित्यलम् / शक्यते न पुनर्भर्तुः कथञ्चित् पुरतः कृतम् // 1033 // मामकार्यरतां दृष्ट्वा मुखरागोऽस्य कीदृशः। अजायतेति तस्याऽऽस्यं वीक्षांचके समाकुला // 134 // अथ निर्वर्ण्य तं भग्न-दृष्टिं श्वासविवर्जितम् / मृतो नु मूछितो वैष येनेहररूपमाननम् // 1035 // उत पश्यामि किं तावद् एषेदानीं विधित्सति / इति बुद्ध्या मृतच्छन कृत्वैवं स्थितवानयम् // 1036 // इत्येवं चिरमाऽऽशङ्कय मृतोऽयमिति निश्चयम् / चक्रे क्रूरा तथारूप-स्याऽन्यथाऽनुपपत्तितः // 1037 // ततो नाऽतो मृताद् भीति-स्तावत् संपत्स्यते मम / इत्यहृष्यदहो !! शोक-स्थाने हर्षों हि रागिणाम् // 2 केवलं रक्षणीयस्याद् अपवादः कथं त्वयम् ? / हतोऽनया निजो भर्ता पापयेतीदृशो मया // 1039 // इति वुद्धरुपायं सा यावचिन्तयते हृदि / तावत् स भद्रकानड्वान् दैवात्तं देशमाययौ // 1040 // तं दृष्ट्वाचिन्ति हुं लण्यो मयोपायोऽपवादहृद् / अस्यैव मूर्ध्नि संरोप्य दोषं स्वं शोधयाम्यहम् //