________________ पणिपति वृषभ सवित समस्थितमाश्रयः / / तस्यामेव तदा पुर्यों जिनदासाऽभिधो वणिक / श्रमणोपासकः श्रीमान् वसति स्म गतस्मयः // 1016 // अष्टम्यादितिथौ यश्च कृताव्यापारपौषधः। चैत्यालयैकदेशे वा शून्यवेश्मनि वा स्थितः // 1017 // एक एव हि तस्याऽसीद् दोषो गुणवतोऽप्यहो!! / यद्गेहिनी सुदुःशीला को वा सर्वगुणाऽऽश्रयः // अन्यदा कृष्णरूपायां चतुर्दश्यां निजौकसः / समीपे शून्यगेहेऽसौ प्रतिमायां समस्थित // 1019 // भार्या च तस्य दुःशीला तस्यां रात्रौ तदेव हि / शून्याऽगारं सर्वर्यका(?) सविटा प्राविशत्ततः॥१०२०॥ भदृष्ट्वा सा घनध्वान्त-पूणे नक्तं निजं पतिम् / पर्यङ्क निदधे भूमौ स्वैरिणी स्वैरमुन्मुदा // 1021 / / पर्यस्य च तस्याऽऽसन् पादेष्वायसकीलकाः / येषु भूमिप्रविष्टेषु भवेनिश्चलता किल // 1022 // तत्रैकः कीलकस्तस्य जिनदासस्य निश्चलम् / तिष्ठतः पतितो देवात् पादस्योपरि निर्दयम् // 1023 // यावत्पुनस्तमाऽऽरूढं मन्मथेनाऽन्धलोचनम् / मिथुनं तत्र भारेण तावद् भिन्नः क्रमः क्षणात् // 1024 // भिन्नेऽपि शकुना पादे चचाल न मनागपि / जिनदासो ध्यानतः को वा सतोऽभिष्टात् प्रपातयेत१०२५॥ चिरं रत्वा तेन साधं यावत्साऽक्षीण्यमीलयत् / क्षणमेकं निदिद्रासु-स्तावद्दोषाऽगमत् क्षयम् // 1026 // विबुद्ध्य सहसा चाऽसौ स्वव्यसनाभिशङ्किता / विभातमिति तं षिड्गं प्रेषयामास सत्वरम् // 1027 // ततः स्वमन्दिरं यामि यावत् कश्चिन्न वीक्षते / मामन्धकार एवेति धिया खट्वामुदक्षिपत् // 1028 //