________________ चरमसलाल GUE यद्यत्रार्थे प्रतीतिस्ते नास्ति मदचनात्ततः। किं नु भो ! भद्रकानड्वा-निव स्वं शोधयाम्यहम् // 1003 // अवाचि कुचिकेनोच्चै-राश्चर्यपूर्णचेतसा / भगवन् ! कोऽयं वलीवहाँ यदृष्टान्तयसेऽधुना // 1004 // मुनिनोचे श्रृणु श्रीमा-चम्पायां धर्मकाङ्क्षया / कश्चिन् माहेश्वरोऽमुश्चत् षण्ढरूपतया वृषम् // 1.05 // गवां मध्येऽतिहर्षेण यो धन्यवृषभानलम् / भङ्क्त्वा युडन वीराऽऽत्मा तिष्ठति स्माऽतिमेदुरः 1006 // वज्राभकठिने श्रृङ्गे यस्याऽऽलोक्य दवीयसा। लोकः प्रयाति भीताऽऽत्मा मा वधीदिति चिन्तया १००७ाली सोऽकस्मादऽन्यथा दैवात् त्यक्तदर्पः(१)स्वचेष्टितः। सौरभेयीगणं त्यक्त्वा नगर्यन्तः समागमत् 1008 // दण्डेनाऽपि हतो नैव कस्मैचित् कुप्यति क्वचित् / विशिष्टसंज्ञया जानन फलं पापस्य कर्मणः // 1009 // कन्धरायां समालम्ब्य शिशवोप्यस्तभीतयः। सौम्यत्वाल्लीलया तस्य चक्रुरान्दोलनक्रियाम् // 1010 // तां दृष्ट्वा शान्ततां तस्मै खल-कल्कन्दकादिकम् / जलं च दापयामासुर्लोकाः करुणचेतसः / / 1011 // अज्ञानाधदितं कश्चि-मिजघान ततोऽपरः / रुरोध 'पक्षपातो हि कस्य न स्याद् गरीयसि // 1012 // दकिंबहुना ?-तिर्यग्भावेऽपि तादृशं शान्तमूर्तित्वमुच्चकैः / तस्याऽलोक्याऽपि साधूनां बभूव ननु विस्मयः // 1013 // ततो लोकेन तां दृष्ट्वा भद्रतां तस्य तादृशीम् / भद्रकोक्षेति याथार्थ्य दधन्नाम व्यधीयत // 1014 // एवं पुर्यन्तराऽऽस्ते स्म स शान्ताऽऽत्मानु(प)तापको / वृषभः साधूपमानोऽसौ परदत्तोपभोगकृत्॥१०१५॥