SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दधे महाहवा मन्त्रिपुरस्क किर्ण कामदासन ददृशे सुप्रतिष्ठाभिधानं नगरम्, उपविष्टस्तद्वहिस्तरुच्छायायां सुकुमारिकाचेष्टितदर्शनसमुपजातविस्मयः / तत्र च नगरे तहिने एव पुत्ररहितो राजा पञ्चत्वमुपजगाम। ततो राज्यपूर्वहनसमर्थ पुरुषमन्वेष्टुं मन्त्रिभिरश्वरत्नमधिवास्य मुमुचे। तेन च त्रिक-चतुष्क-चत्वरा-ऽऽराम-विहार-जलाशयादिदेशा[न]न्तर्बहिश्च विचिन्वता प्रबलतरतरुवरतलवर्ती ददृशेऽसौ जितशत्रुनरपतिः। तत्मभावाच न चचाल तरुच्छाया। ततः स देवतया 'राज्ययोग्योऽयं पुमान्' इति विज्ञाय तस्थे तदग्रतः, विदधे महाहेषारवः, समुपदधे स्वपृष्ठमाऽरोपणाय / ततश्चैवमश्वरत्नसूचितां तस्य राज्ययोग्यतां बाढमवलोक्य तदनुयायिना मन्त्रिपुरस्सरेण राजलोकेन चक्रे राज्याभिषेकः / ततोऽसौ जितशत्रुस्तावत् प्रथमवत् प्रणतपरराजन्यकमुकुटकोटितटकिंकिणीकृतपादपङ्कजो राज्यं प्रसाधयनाऽऽस्ते स्म। इतश्च सा सुकुमारिका तत् स्वभर्तृविढवितं द्रव्यं तेन पङ्गुना सार्धमुपभुज्य 'नास्त्यन्यो जीवनोपायः' इति संचिन्त्य स्कन्धविन्यस्तपङ्गुमि-नगरादीन् परितुमारेभेततोऽसौ पङ्गुस्तत्स्कन्धाऽघिरूढो यत्र यत्र जगौ तत्र तत्र सुस्वरतया समाक्षिप्तोऽनुकम्पया च लोको भिक्षादौ प्रवर्तते, तजितशत्रुनरपतिनाऽश्रावि-यथा काचिदत्यन्तोपहसितसुरसुन्दरी योषित् पङ्गुना शिरसि रक्षितेन प्रतिव्रता व्रतं चरन्तीह प्राप्तेति / ततः कदाचित् 'सैषा पापा सुकुमारिका भविष्यात इति कुतूहलेन राज्ञा प्रेषिताः पुरुषाः-भो ! भो! आनयध्वं तां व.
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy