________________ // 355 // जाम्बवत्यादिलग्न खरूपम् जाम्बवती तस्यास्ति नन्दना / स्वर्गमप्सरसो भेजुनूनं यद्रूपनिर्जिताः॥१॥ सा च नित्यं मरालीव गंगायां याति खेलितुम् / वीक्ष्या| द्याश्चर्यभूतां तां प्राप्तोऽस्मि तव शंसितुम् / / 2 / / श्रुत्वेति कृष्णः सेनाभिः सह गंगामुपागमत् / तत्र जाम्बवती क्रीडावती प्रेक्ष्येत्य| चिन्तयत् // 3 // दिवं भुवं च गंगां च पार्वणेन्दुमयों समम् / स्वमुखज्योत्स्नया कुर्वत्याऽऽश्चर्यकमयी ह्यसौ // 4 // अवणि वणिनी यादृग् मुनिना तादृगेव हि / दृश्यते स्वीपरीक्षायां दक्षा ब्रह्मविदोप्यहो // 5 // जहे जाम्बवतीं कृष्ण सतृष्ण इव कर्कटीम् / चक्रे च बहलः कोलाहलस्तस्याः सखीजनैः // 6 // सखड्गफलकः क्रोधाद्योधाब्यो जाम्बवांस्ततः / आगतो विजितोऽनाधृष्टिनाऽर्यत च शाङ्गिणः // 7 // हरिणा जाम्बवान् जाम्बवतीं तत्रोदवाहयत् / तत्पराजयवैराग्यात्स्वयं तु व्रतमाददे / / 8 // सूनुर्विष्वक्सेनोऽस्याऽऽश्रयविष्णुं स | तद्युतः। आययौ द्वारकावत्यां जाम्बवत्या समं मुदा // 9 // रुक्मिणीमन्दिरासन्नं सोऽदात्तस्यै च मन्दिरम् / सामग्री चाथ रुक्मिण्या सह सख्यमियं व्यधात् // 10 // अन्यदा सिंहलाधीश श्लक्ष्णरोम्णा निराकृतः। आगतः कुपितो दूतः कृष्णस्याख्यदिति प्रभोः॥११॥ तवाज्ञा न प्रतीयेष सिंहलेन्द्रोऽस्य केवलम् / कन्याऽस्ति लक्ष्मणा योग्या तवैवातिसलक्षणा // 12 // सा च स्नास्यति सप्ताहं वारिधौ | तत्र चागमत् / इदानीमेव सेनान्या द्रुमसेनेन रक्षिता // 13 // श्रुत्वेति कृष्णः सबलस्तत्र द्वेधाऽपि जग्मिवान् / हत्वा सेनाधिप कन्यां | पर्यणेपीच पूर्ववत् // 14|| आनीय द्वारकां जाम्बवतीसमान्तःसद्मनि / मुमोच लक्ष्मणां दत्वा परिवारादिकं हरिः // 15 / / इतश्चासी सुराष्ट्रेशो जवखुरीनगरीस्थितः / श्रीराष्ट्रवर्द्धनो नाम्ना भूपतिविनयापतिः॥१६॥ पुत्रोऽस्य नमुचिः सिद्धदिव्यास्त्रबलगर्वितः / दूतोपनीतां कृष्णाज्ञां मेने मानोन्नतो नहि // 17 // सुसीमया स सौन्दर्यवर्यस्त्रीणां सुसीमया / स्वस्रा कुमार्या सहितः प्रभासे स्नातुमागमत् // 18 // निवेश्य कटकं तत्र स्थितश्चायं हरेश्वरैः / आख्यातस्तेन चागत्य जप्नेऽग्राहि च तत्स्वसा // 19 // गोविन्दस्तामपि व्यूह्य | // 355 //