________________ // 469 // मृतकृष्णं स्कन्धे क्षिप्त्वा बलस्य भ्रमणम् * पुनरेत्य हरिं गाढमाश्लिष्येत्यरुदद् भृशम् // 6 // हहा प्रीतिसुधासिन्धो ! बन्धो मजीवितेश्वर / नेशोऽस्मि त्वां विना स्थातुं ततो जल्पसि ? किं नहि // 7 // नापराद्धं मया बाल्यादपि त्वयि कदाचन / किं ? प्रेमाश्रय ! तन्मौनमाश्रयः प्रागनाश्रितम् / / 8 // अभृ. जलविलम्बो वा रोपहेतुः स मुच्यताम् / यत्पदोरुपसंगृह्य श्रमितोऽसि मयाऽधुना / / 9 / / गुणज्येष्ठ ! तदुत्तिष्ठ सन्ध्याऽभूत् सुप्यते न | तत् / इत्यादि विलपन्नुच्चै रात्रिमप्यनयद् बलः // 10 // भ्रातः प्रातरभृद् बालवत्कालं गमयः स्म मा। विश्वश्रेष्ठ ! तदुत्तिष्ठ वकृत्यमनुतिष्ठ च // 11 / / अनुत्तिष्ठन्तं च बन्धुं तं गाढस्नेहमोहितः / रामोऽध्यारोपयत् स्कन्धे शैशवं स्मरयन्निव // 12 // सम्भ्रमी बम्भ्रमीति स्म स प्रत्यद्रिवनं ततः / मद्वन्धुरेकछलितो हा किं ? देव्य इति त्रुवन् // 13 // च्छलयन्ति न शाकिन्योऽप्यपितं त्वयमा| स्ततः / न्यासापहारः किं ? चक्रे युष्माभिरिति कथ्यताम् // 14 // इत्यादि जल्पन सोऽभ्राम्यदुर्गन्धादेरभावतः। बन्धोः कायस्य | तन्मृत्युं नाज्ञासीन्मोहतोऽपि च // 15 // तं कृष्णदेहं मपयन् पुष्पैः संपूजयन् वहन् / अतिचक्राम पण्मासी मोहादेकाहवद् बलः 16 / / वर्षागमेऽथ सिद्धार्थो देवभूयंगतोऽवधेः / बलं दुःखिनमालोक्य दृष्टान्तरित्यबोधयत् // 17 // बलोद्राक्षीद्गिरेरुत्तरन्तमश्ममयं रथम् / देशे प्राप्तं समे भग्नं संदधानं च तं नरम् // 18 // बलस्तमूचे विपमाद् गिरेरुत्तीय यः समे / रथस्ते चूर्णतामागातं कथं ? मेलयिष्यसि / / 19 / / नरोऽप्यूचे जितानेकयुद्धः सुप्तः सुखं मृतः। त्वदाता जीविता चेनद्रथोऽपि मिलिता मम ॥२॥रामोऽन्यतो रोपयन्तं पद्मानि प्राव्णि कश्चन / उवाचात्र लगिष्यन्ति कथमेतानि मूर्ख ! भोः॥२१।। स पुमानप्युवाचेति चेतिष्यति तवानुजः। मृतो यदा तदा प्राप्स्यन्त्येतान्यप्यत्र रोपणम् // 22 // अथान्यत्र बलः कश्चित् सिञ्चन्तं दग्धपादपम् / नरं माह कथं मृढ ! निर्दग्धोऽयं प्ररोक्ष्यति ? // 23 // सोऽपि स्मित्वाऽवदत्तेऽसौ जीविष्यति यदाऽनुजः / तदा द्रुमोऽयं दग्धोऽपि भविष्यति सप // 469 / /