________________ // 457 // पालकाभव्यताप्रक टनम् चक्रेऽसौ भूषणं केवलश्रियः // 94 // विहृत्यान्यत्र भगवानुजयन्तगिरौ पुनः। आगाद्विचक्रे समवसरणं च सुरासुरैः॥९५॥ साया। शैलपालेभ्यस्तद् ज्ञात्वा स्थानसंस्थितः। जिनं नत्वाऽब्रवीत्पुत्रानिति सर्वान्निजान् हरिः / / 96 // वन्दिष्यते प्रभु यः प्राक् प्रगे गत्वा मदङ्गजः। दास्येऽभीष्टमहं तस्मै वाजिनं गुणराजिनम् // 97 // श्रुत्वेति शाम्बोज्गात्सौधे रात्रौ च विधिनाऽस्वपीत् / ब्राझे मुहर्ने | | तल्पाच्चोत्थाय तत्रैव च स्थितः // 98 // देवं ववन्दे श्रीनेमि भूत्वा रैवतसंमुखः / भावस्तुत्याऽर्चयत्काव्यपुष्पैर्वाग्वल्लिजैस्तथा॥९९॥ युग्मम् // पालकस्त्वन्त्ययामेऽपि वेगिना वाजिना द्रुतम् / गत्वा जिनमभव्यत्वादाक्रोशंश्चेतसाऽनमत् / / 200 // बालकः पालकः प्रातर्ययाचेऽश्वं जनार्दनम् / सोऽप्यूचे तस्य दास्ये यं वक्ता प्राग्वन्दकं प्रभुः॥१॥ पृष्टोऽथ गत्वा हरिणा केनादावद्य वन्दिताः। | स्वाम्युचे पालकेनाश्वलोभाच्छाम्बेन भावतः // 2 // हेतुं पृथक् स्वभावे च तयोः पृष्टोऽथ शाङ्गिणा / अभव्यं पालकं स्माह भव्यं शाम्ब पुनर्जिनः॥३॥आकर्ण्यनमभव्यमात्मसुतमप्याः पालकं निन्दकं, श्रीनेमेः कुपितः स्वयं यदुपतिनिर्वासयामासिवान् / दत्वाऽश्वं रुचितं च भव्यमपरं शाम्बं विलम्ब विना। चक्रे मण्डलनायकं सुतमहो भावस्य लीलायितम् // 4 // अममचरिते भाविन्येवं तयोः सहजन्मनोबलहरिभवे तुर्ये वर्ये निशम्य लघोजनाः। सुकृतकलनामहन्नाम्नोऽर्जनां मुनिवन्दनात् किमपि दृढतां सम्यक्त्वे चाऽऽतनुध्वमनारतम् // 5 // // 457 // इत्याचार्यश्रीमुनिरत्नविरचिते अममस्वामिचरिते महाकाव्ये तुर्यभवे गजसुकुमार-सागरचन्द्र-भेरी-वैद्य-वीरकचरित-श्रीकृष्ण सुकृतार्जन ढण्ढणकथा-रथनेमिबोध-शाम्बपालकवृत्तवर्णनस्त्रयोदशः सर्गः / / ग्रन्थानम् // 20 //