________________ श्रीअमम // 422 // जिनेशचरित्रम् / गत्वा युद्धे कृष्णेन हतो बाणः नेशुस्ता_ध्वजे क्षणात् / / 9 // शंकरस्य बलाद्विद्याबलाद् भुजबलादपि / बाणः प्राणभृतः कृष्ण मुखेनैवमताडयत् // 10 // अरे मदभरेणान्ध किं ? नः खं वीक्षते नहि / यन्मया शंकरवरादजय्येनाऽसि ढौकितः॥११॥ सदा कन्यास्त्वमन्येषामहापीनिवपत्वतः। ततस्ते पुत्रपौत्रैरप्येतद् द्वयमशिक्ष्यत // 12 // कुष्ठेनेव क्रमायातेनाऽनेन व्यसनेन वः / तत्सर्वानातुरानेष चिकित्सिष्यामि वैद्यवत् // 13 // कृष्णोऽप्यवादीद् वातूल तूलवत्सं वृथा न किम् / उल्लालयन मृपास्तुत्या वात्ययेव विगुप्यसि ? ||14 // कन्या [वश्यं दातव्या परस्मै नागवल्लिवत् / तस्याः स्वयंग्रहे पुंसः को ? दोषो कथ्यतां ननु // 15 / / किं ? ताम्बुलिकवन्मूल्यं लिप्सुर्वास्यास्ततो ध्रु. | वम् / इत्थं योद्धुं त्वमन्वागाः स्वां महत्तरतां वदन् // 16 // हस्त्यारूढेनापि पादौ स्खौ वीक्ष्यौ तु सुमेधसा / तच्छंकरवरान्मूर्ख विश्वं किमवमन्यसे ? // 17 / / बालवहुमुख तत्त्वां शिक्ष्यमाण मयाऽधुना / त्रास्यते चेत्तदा सत्यो ज्ञास्यते शांकरो वरः॥१८॥ श्रुत्वेति बाणोऽप्यासन्नमृत्युविस्मृत्य शांकरम् / तद्वचः खेचरैः सार्द्ध वर्द्धमानबलः क्रुधा / / 19 / / बाणान् बाणासनात् प्राणाधिकश्चिक्षेप शाङ्गिणे / महावादी वादिशब्दानिवैतान् सोऽप्यखण्डयत् / / 20 / / युग्मम् // शराशरि चिरं कृत्वा कृष्णः समरकौतुकी। लूनविद्यास्त्रसत्पक्षं बाणं बाणमिवाऽक्षमम् // 21 // निर्माय गर्वकोदण्डान्निपात्य भुवि हेलया। विधाय खण्डशो निन्ये वायोरतिथितां क्षणात् // 22 // यु०॥ उपया स्नुषया युक्तमनिरुद्धं ततः सुखम् / गृहीत्वा द्वारकामागाद् विष्णुबन्धुसुतान्वितः // 23 // हत्वेत्थं प्रतिगर्जतः क्षितिभृतः | पक्षोद्धतान् मेदिनी, मुद्वैराग्यवतीमतीतनिखिलातकां च कृत्वा हरिः। पुर्यां स्वस्य चिरं स्थितः सह परीवारेण पुण्यार्पिता, लक्ष्मी | दाक्षिणभारतस्य चुभुजे चित्रं तु गोत्रप्रियः॥२४॥ अममचरिते भाविन्येवं तयोः सहजन्मनोबलहरिभवे तुर्ये धुर्ये ऽर्जनाय जिन| श्रियः / प्रतिरिपुरणं यत्संश्लिष्टो लघुविजयश्रिया तदिह निपुणेः श्रेयोबीजं विचार्य तदर्यताम् // 225 // सर्ग-१२ // 422 //