________________ // 417 // पद्मो निर्वा| सितो राज्यात कपिलवासुदेवेन हता / आख्याते कपिलो भूयोप्यप्राक्षीदिति केशवः // 16 // स्वामिन् ! कृष्णस्य किं जम्बुद्वीपार्द्धभरतेशितुः / करोम्यातिथ्यमतिथेरीदृग्योगः पुनः कुतः // 17 // जिनोऽवादीन्न तीर्थेशो न चक्री नार्द्धचक्रथपि / मिलेदऽन्यस्य नियमात् कार्यात् तत्क्ष्मां गतोऽपि सन् // 18 // संगच्छेते न पुण्याढ्यावेकत्र पुरुषावुभौ / सम्पूर्णतेजसौ व्योम्नि सूर्याचन्द्रभसाविव / / 19 / / इत्यर्हद्वाचमाकाऽप्याकुलः कपिलस्ततः / कृष्णं द्रष्टुमगादब्धेस्तटे तद्रथवर्मना / / 20 // मध्येसमुद्रमद्राक्षीत् स च कृष्णस्य गच्छतः / श्वेतान्पीतान् रुप्यहेमपत्राभान् स्यन्दनध्वजान् / / 21 / / अहं त्वामागम द्रष्टुं धातकीखण्डकेशवः / तदेहीति व्यक्तवणं स्वशंख कपिलोऽधमत् / / 22 / / साधु मैत्री त्वया व्याञ्जि दूरे किन्त्वागता वयम् / तदत्र किश्चिन्मा वादीरिति व्यक्ताक्षरध्वनिम् / / 23 // | अदैन्यं पाञ्चजन्यं खं कृष्णोऽप्यापूर्य संचरन् / कपिलं बोधयामास स्थितिः स्याजातु नान्यथा // 24 // युग्मम् // शंखध्वनि| मिति श्रुखा कृष्णं ज्ञात्वा च दूरगम् / कपिलो ववले विष्णुर्धवलेतरवक्त्ररुक् // 25 / / इत्याश्चर्य हरिवंशेऽवसर्पिण्यामजायत / चक्या| दयः खसीमां यन्नातिकामन्ति देववत् / / 26 / / स गत्वाऽमरकंकायां पद्म पप्रच्छ किन्विदम् / स्वापराधेनिवेद्येषोऽप्युपरुन्धंस्तमृचिवान् // 27 // सत्यपि त्वयि नाथेऽहं जम्बुद्वीपस्य विष्णुना / यत्क्लप्तेन पराभूतस्तेजोहाणिः तबैव सा // 28 // रेरे चेव विजातीयो। गृहे शूरोऽसि यत्ततः। विग्रहं हरिणा कुर्वन्नसमानौजसा समम् / / 29 / / मृतोऽसि यन्न तन्नाभूत् साम्प्रतं साम्प्रतं पुनः। मेहाऽस्थाः पाप चेत स्थाता सद्यः प्राणैर्वियोक्ष्यसे / / 30 / / निजाऽन्यायफलं मुंव गत्वैकाकीति कोपतः / कपिलोऽप्यरुणः पद्ममुक्त्वाशु निरवा|सयत् // 31 // त्रि०वि०॥ तद्राज्ये तत्सुतं न्यस्य स्वस्थानं कपिलो ययौ / दुर्नयं पुत्रमपि न क्षमन्ते हि क्षमाभुजः॥३२॥ इतश्च कृष्णोऽप्युल्लन्ध्याऽब्धिमूचे पाण्डवानिति / सुस्थितं यावदापृच्छे तावद् गंगा विलंध्यताम् // 33 // द्वाषष्टियोजनपृथुश्रोतो गांगं च बेडया। // 417 //