________________ र दुर्योधनः // 399 // पकुलो नकुलोऽनाकुलो हदि॥१६॥ ततः पाण्डवकौरव्यसेनयोः कुञ्जरेश्वराः। मिथो योधरमील्यन्त कृतान्तस्येव किंकराः॥१७॥ केनापि हस्तिना हस्ती दूरमुत्क्षिप्य शुण्डया / पतन्नथो धृतो दन्तेनात्मभंगभयादिव // 18 // घातजातदन्तपाताविभौ कौचित्परस्परम् / मन्दं मन्दं कराग्रेणाऽस्पृशतां करिणीभ्रमात्॥१९॥ एकः प्रोतं खदन्तेन गजः प्रतिगजं जवात्। ऊर्ध्वमर्पयितु शंकेर्कपुत्रस्योदपाटयत् // 20 // विषादिनं वैरिभंगात् ज्ञात्वेव खं निषादिनम् / कश्चिद् गजः प्रतिगजापद्रुतो विद्रुतो रणात् // 21 // कोऽपि दन्ती प्रतिदन्तिदन्तमुत्खाय शुण्डया / मुखेप्सीद्वषा द्वेषिकीति मूर्तिमतीमिव / / 22 / / हेपयामासतुः कौचिद् गजौ स्वं स्वं निषादिनम् / एको धूताकुशस्त्रस्यन् धावन् पृष्ठे परः पुनः // 23 / / इतः कल्पान्तवद् भीमं भीमं ज्ञात्वाऽप्यधावत् / हन्तुं दुर्योधनः कोपात्करभः शरभं यथा |* // 24 // सिंहाविव कृतक्ष्वेडौ सगज्जी दिग्गजाविव / नानायुधयुयुधाते तौ वीरौ कौतुकाचिरम् // 25 // भीमः स्मृता यूतवैरं तं वीरं || गदया तथा / पिपेप वातास्तदेहस्याणून संचस्करुर्यथा / / 26 / / हिरण्यनाभं सेनान्यं तत्सैन्याः शरणं ययुः / अनाधृष्टिं परिवत्रुर्यादवाः पाण्डवान्विताः॥२७|| हिरण्यनाभमायान्तं विब्रुवाणं यदून रुपा / अभिचन्द्रोऽवदद् वाचा शूरोऽसि क्रियया नतु // 28 // अभिचन्द्र हिरण्योऽपि रोषात्प्रेषीत्खगावलीम् / तां पार्थो व्यर्थयामास स्वर्णपक्षैनिजैः खगैः // 29 // प्रहरन्तमर्जुनेऽपि तं विदित्वान्तरागतः। रथादपातयद् भीमो गदया कंटकं यथा // 30 // स भानुवत्पुनः श्रित्वा रथं रोषारुणाननः / शोषकरैरिव शरैनिन्येऽनाधृष्टिवाहिनीम् // 31 // तमायान्तमथालोक्याऽनाकुलं निजमातुलम् / अभ्युत्तस्थौ जयसेनः शिवादेवीतनूद्भवः // 32 // जामेयसारथिं क्रोधादतुलो मातुलोऽवधीत् / जामेयोऽप्यऽच्छिदत्तस्य वश्विध्वजसारथीन् // 33 // केशरीव नखैर्वज्रसखैमत्तं मतंगजम् / स शरैर्दशभिस्तीक्ष्णजयसेनं न्यषूदत // 34 // महीजयस्तदनुजः खगवर्मधरो रथात् / अभ्यापतंश्च तेनैव क्षुरप्रेण न्यहन्यत // 35 // रौद्रदृष्टिरनाधृष्टिबन्धु // 399 //