SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पि खलकृतं कष्ट सहमजनतोपरि द्रौपया सहदेवाः पञ्च पुत्रास्य दुर्योधनप्रमुखाः शन्त / अर्थकदा जइ दुरजन लोके दूहव्या दोष देई, मन मलिन न थाए सज्जना तेह तेई / द्रुपद-जनक पुत्री अंजना कष्टभोगे, कनक जिम कसोटी ते तिसी शीलयोगे // 14 // पुनस्तानेव वर्णयति-जगति दुर्जनैरतिदूषिता अपि मनागपि न खिद्यन्ते / न वा तेभ्यः किमपि ते द्रुह्यन्ति / केवलं द्रौपदीसीताञ्जनादिवत् सर्वमपि खलकृतं कष्ट सहमानाः सत्पुरुषा निकपोपलघृष्टा मणय इवातितरां भान्ति // 14 // अथ सज्जनतोपरि द्रौपद्याः २०-प्रबन्धःतथाहि-तत्र हस्तिनापुरे पाण्डो राज्ञो युधिष्ठिर-भीमाऽर्जुननकुलसहदेवाः पञ्च पुत्रा आसन् / पञ्चानामपि द्रौपद्येका भार्याऽऽसीत् / तेषु युधिष्ठिरो राज्यभागभूत् / पाण्डोायान भ्राता धृतराष्ट्र आसीत् / तस्य दुर्योधनप्रमुखाः शतपुत्रा आसन् / तेषु दुर्योधनो महाकपटकारी क्रूरकर्माऽभूत् / अभी च कौरवनाम्ना प्रथन्ते / ते पञ्च भ्रातरः पाण्डवा इत्युच्यन्ते / अथैकदा दुर्योधनो दुर्धिया सरलमतिकं युधिष्ठिरं द्यूतक्रीडां कर्तुं विज्ञप्तवान् / निर्मलात्मा धर्मोऽपि तद्वचः स्वीचक्रे, ततः सभायां तो युधिष्ठिरदुर्योधनौ रन्तुं प्रावृताते / खलीयान दुर्योधनः प्रथममेव कपटेन स्वानुकूलेऽक्षे पतिते तञ्जित्वा तदीयम्प्राज्यं राज्यमग्रहीष्ट / राज्ये हारिते पुनर्दीव्यतस्तस्य वसनाऽऽभरणादीनि पणीकृतानि कपटलीलयाऽऽत्मानुकूलमक्षान् निपात्य सोऽप्यग्रहीत् / इत्थम्भवितव्ययोगात्पाण्डुमूनुद्रौपदीमतिप्रेयसीमपि हारितवान् / ततः पञ्चाऽपि बन्धूंस्तान राज्यं त्यक्त्वा वने निवसितुमादिष्टवान् दुर्योधनः / अथ तेऽपि तदैव बनाय प्रतस्थिरे तत्रावसरे द्रौपद्यपि तैः सह चचाल / तस्मिन् समये दुर्थीदुर्योधनो दुःशासनमुवाच / भो भ्रातः ! इयमपि द्रौपदी पाण्डवान्जिता ममैवाऽभूदत एनां यान्तीमवरोधय / तदादिष्टः स तत्पार्श्वमागत्य तामेव RECERCOREORIXE
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy