SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धर्मवर्ग मुक्तावली // 39 // मवादीत् / अयि द्रौपदि ! त्वमस्माभिर्जितासि पाण्डवानुगामिनी कथं बुभूषसि / निवर्तस्व, अस्माकम्प्रेयसीभूय सुर्ख भुक्ष्व, इत्युदीर्य कचग्राहं तां दुर्योधनान्तिकमानीतवान् / तत्र स्थितां तां दुर्योधन ऊचे / हे सुन्दरि ! तत्र किन्तिष्ठसि ? मम वामाङ्काधिरोहिणी भव / वज्रायितं तदाकर्ण्य दिङ्मूढा सा तत्रैव मौनमाश्रित्य तस्थौ / अत्रावसरे दुःशासन उत्थाय तस्याश्चीरमाचकर्ष, परं महासतीशीलमाहात्म्यात्तत्क्षणं तदङ्गानि शासनदेवता वस्त्रेण समावृणोत् / आकृष्टेऽपि दुःशासनेन तद्वस्त्रे लोकैरनावृतं तदङ्गं नालोकि / इत्थं सहस्रशो दुःशासनस्तद्वसनमाकृष्टवान् / देवता च नवनवैर्वसनैः समावृणोत् / किमधिकं ब्रुवे, यावन्ति वसनानि तेनाऽऽकृष्टानि तावन्ति शासनदेव्या तस्यै प्रदत्तानि / इत्याचर्यकरी चमत्कृति पश्यन्तः सर्वे सभ्यास्तां प्रशंसन्तो राजानमनुनीय मोचयामासुः / ततस्तन्मुक्ता समागत्य पाण्डवैः सह सङ्गताऽभवत् / सती द्रौपदी शीलप्रभावादेव पाण्डवानामियती महती सती लोके विस्तृता / अहो ! स्वाङ्गाद्वस्त्राऽऽकर्षणादिदुःसहमाना सा द्रौपदी मनागपि सज्जनतां न जहो / मनसि मालिन्यमानीय तस्मै दुर्योधनाय नो चुकोप / एनां कथामाकर्णयद्भिरन्यैरप्येवमेव कर्तव्यम् / पुनरपि सजनतोपरि अञ्जनायाः २१-प्रबन्धःइह हि भरतक्षेत्रे सागरसमीपे दन्तिपर्वतोपरि महेन्द्राभिधाननगरमस्ति / तत्र माहेन्द्रनामा विद्याधरो राजाऽस्ति / तस्य सुन्दरीनाम्नी पत्न्यस्ति / तस्याः कुक्षेः शतपुत्राणामुपरि पुत्र्येकाञ्जनासुन्दरी समुत्पेदे / तामुदायामालोक्य तत्पित्राऽनेकेषां विद्याधरराजकुमाराणां चित्राणि समानीय तस्यै दर्शितानि / तत्र हिरणाभविद्याधरराजस्य सुमतिकुक्ष्युद्भुतविद्युत्प्रभकुमारस्तथा वैताट्यपर्वतीयाऽऽदित्यनगरीयविद्याधरराजप्रहलादस्य केतुमतीकुक्षिजातः पवनञ्जयकुमारस्तस्या अनुरूप आसीत् / एतो
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy