SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ हा विद्यावन्तौ गुणवरौ रूपलावण्यधनसम्पन्नौ स्तः / तदा राजा मन्त्रिणमपृच्छत्-मो मन्त्रिन् ! अनयोर्मध्ये कतरस्मै कन्या देया / मन्त्री वक्ति हे राजन् ! विद्युत्प्रभस्त्वष्टादशवर्षाणि जीवितो भूत्वा मोक्षं यास्यति / इति नैमित्तिकोक्तं श्रूयते / अतो दीर्घायुषे पवनञ्जयकुमाराय कन्यां देहि / इत्याकर्ण्य साऽञ्जना चिन्तयति / पयः स्वल्पमपि पथ्यं भवति, तक्रं च प्रचुरमपि क्षीरतुल्यं यथा न भवति, तथा स्वल्पजीविनाऽपि चरमशरीरिणा विद्युत्प्रमेण संयोगः श्रेयानस्ति / परमीदृशं भाग्यं मम नास्ति / येन तत्समा गमो जायेत / पवनञ्जयो दीर्घायुर्भूत्वाऽपि यदि कुसङ्गतिकारी भवेत्तर्हि महादुःखिनी स्यामित्यादि विचिन्तयन्ती किञ्चिद्विच्छायवदनाऽऽसीत साञ्जना।। इतश्च माहेन्द्रो राजा पवनञ्जयकुमारेण सह तस्या विवाहं निश्चितवान् / प्रह्लादराजोऽपि कन्याया रूपगुणादिकमाकर्ण्य स्वपुत्रस्य योग्याञ्जनासुन्दरीति मनस्यवधारितवान् / पुनः स्वपुत्राय तामञ्जनासुन्दरी ययाचे / तत उभाभ्यां प्रधानादि जनम्प्रेष्य दिनावधारणञ्चक्रे / तत्राऽन्तरे पवनञ्जयः प्रहसितनामानं निजमित्रमेवमाख्यत् / भो मित्र ! मम लग्नमञ्जनासुन्दर्या सह निर्धारितवान् पिता / सा कीदृशी वर्तते ? त्वया सा दृष्टास्ति / सोऽवक् भो मित्र ! सा त्वप्सरसोऽप्यधिका वर्तते रूपलावण्यादिगुणैः / तस्याः सौन्दर्यसम्पत्तिजणांश्च कवयोऽपि यथावद्वर्णयितुं नैव क्षमन्ते / इत्थं तत्प्रशंसां वयस्यमुखादाकलय्य सोवादीत् / भो वयस्य ! लग्नदिवसो दूरे वर्तते / तावदेव तां वीक्षितुमुत्सुकं मम मनो भृशं वर्तते / केनाऽप्युपायेन तत्साधय / ततस्तेन सह पवनञ्जयो निश्यञ्जनासुन्दरीनिवासमन्दिरमेत्य गवाक्षजालेन तां वीक्षमाणौ तस्थतुस्तावलक्षितौ / तत्रावसरे काचिद्वसन्ततिलका नाम्नी दासी तामेवमुवाच / अयि स्वामिनि ! तव पवनञ्जयः पतिः स्यादिति धन्यासि, पुनर्मिश्रकेशी सखी तामूचे / अरे ! चरमशरीर
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy