________________ धर्मवर सूक्तमुक्तावली // 38 // तथाहि-तस्मिस्तिर्यग्लोके लवणादय उत्तरोत्तरद्विगुणिता असंख्याता द्वीपसमुद्राः सन्ति / तेष्वन्तिमः स्वयम्भूरमणाख्या: धराजप्रमाणसमुद्रोऽस्ति / तावद्देशावस्थितस्य तस्य पूर्व दिशान्ते युगं स्थापयित्वा तच्छिद्रे यदि कश्चित्स्वयम्भूरमणस्य पश्चिमदिग्भागस्थितः कीलकं क्षिप्नुयात् / तदा तत्कीलक यथा तत्पादिगवस्थितयुगच्छिद्रे प्रवेष्टुं न शक्नोति, तथैव धर्म विना वृथा गतमेतन्मनुष्यत्वं पुनः प्राप्तुं कोऽपि न शक्नोति / अतः सर्वैर्धर्म आराधनीयः क्षणमात्रमपि तत्र प्रमादो नैवाऽऽनेतव्यः / १०-अथ-मनुष्यजन्मदौर्लभ्ये परमाणोः १९-दृष्टान्तमाहतयाहि-यदि कश्चित्पराक्रमी देवो महाशैलस्तम्भमञ्जनवरिपष्ट्वा तच्चूर्ण कुत्रचित्पात्रे संमील्य पुनस्तन्मेरुशिखरमारुह्य निक्षिपेतू, तदनु दशदिक्षु विकीर्णानां तेषाम्परमाणूनां पुनरेकत्रीकरणं यथा न सम्भवति, तथा धर्म विना वृथा यातमेतन्मनुष्यत्वं पुनः प्राप्तुं सर्वथाऽसम्भवीति मत्वा धर्म आराधनीयः / ३-अथ सज्जनविषयेसदय मन सदाई दुःखियां जे सहाई, परहित मति दाई जास वाणी मिठाई / गुण करि गहराई मेरु ज्यूं धीरताई, सुजन जन सदाई तेह आनन्द दाई // 13 // इह खलु येषां मनसि सदैव दुःखिनः प्राणिनो दर्शनायोत्पद्यते / ये च जगज्जीवे बन्धुतां वहन्ति / परहितरतचेतसो विलसन्ति / येषां वचनं मिष्टतर तथ्यं लोकद्धयपथ्यमस्ति / निवसन्ति च येषु सर्वे सद्गुणाः / एतादृशा धीराः सज्जनाः सदैव सकलजगत्सुखयन्ति // 13 // // 38 //