SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ | कोऽस्ति सः ? तत्राऽवसरे प्रधानेन तत्पत्रम्पदर्शितङ्कथितश्च पूर्वजातं विवाहादितत्पुत्रजन्मपर्यन्तमखिल वृत्तम् / पत्रदर्शनेन तत्सर्व मनसि स्मृत्वा तेनोक्तम्-समानयतु तमत्र / तदा नृपादेशेन तत्रागतः सुरेन्द्रदत्तो यथाविधि पितरम्प्रणम्य तत्साधने प्रावर्तत / कलाकुशलः स तदानीं धनुषि बाण संयोज्योपरिकृतहस्तस्तैलभृतकटाहमध्ये वीक्षमाणो भ्राम्यच्चक्रप्रतिबिम्बमभिलक्ष्य तदैवैकेनैव वाणेन सर्वाणि चक्राणि विध्यन् राधाचक्रस्य वामाक्षि विव्याध / तदा सर्वे लोका मुदमावहन्तस्तं तुष्टुवुः / सा च राजपुत्री तस्याऽधिकण्ठं वरमालां न्यधत्त / सर्वे लोका मुदा तदा जयजयारावं वितेनुः / ततः पाणिग्रहणे कृते तया सह भोगं भुञ्जानः सुरेन्द्रदत्तः पितृदत्तं राज्यमाप / ते च द्वाविंशतिराजकुमाराः शैशवे विनयादिगुणविहीना विद्यां न पेटुः कलाश्च न शिशिक्षिरेऽतो राज्यमलभमानाः पश्चात्तापमेव चक्रः / कदाचित्तादृशैरपि तैर्देवबलेन तदपि साध्येत, परन्तु यः प्रमादादिवशगो भूत्वाऽतिदुरापमिदं मानुष्यङ्गमयति तस्य पुनस्तल्लाभो दुर्लभ एवेति ज्ञात्वा सर्वैरपि ज्ञानं लब्ध्वा धर्मे प्रयतितव्यमिति / ८-अथ मनुष्यत्वदौर्लभ्ये कर्मस्य १७-दृष्टान्तं दर्शयतितथाहि-कस्मिंश्चिल्लक्षयोजनप्रमाणे इदे महानेकः कूर्म आसीत् / स चैकदा दैवयोगात्समीरणेन जम्बालजालावरोधे दूरीकृतेऽदृष्टपूर्वश्चन्द्रमण्डलमालोक्य कुतूहलाक्रान्तमानसो निजपरिवारान् तद्दर्शनाय समाहातुमन्यत्रागच्छत् / कियत्समयानन्तरं तैः सहागतः स कूर्मस्तत्र पुनर्जम्बालजालावरुद्धे सति बहुधा यतमानोऽपि तन्नैवाऽपश्यत् / तथैव धर्म विना मनुष्यत्वमिदं यस्य याति तस्य पुनस्तदधिगतं नैव भवति / अत एतत्सर्वैधर्मोपार्जनेनैव सार्थक्यं नेयम् / ९-अथ मानुष्यदौर्लभ्ये युगस्य १८-दृष्टान्तमाह SECRECORRRRRRACK -अथ मनुष्यत्वदौलभ्ये कमवत / स चैकदा दैवयोगात्समीरण कियत्समयानन्तरं
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy