SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः१ मुक्तावली // 37 // श्रूयन्ते / अतः कन्यैषा स्वयम्बराज मम राज्ञा प्रेषिता / अस्याश्चेदृशः पणो विद्यते / यथा-यो हि राधावेधकरिष्यति, तमहं वरिष्यामीति / अतः सत्वरमेतत्सम्पाद्य निजपुत्रेणाऽस्याः पाणिपीडनं कारय / तत इन्द्रदत्तो राजा निजपुरे सर्वत्र तन्महोत्सवं व्यधत्त / अत्युत्तमं स्वयम्वरमण्डपं नानाचित्राद्यलङ्कृतं रचयामास / मध्ये च राधावेधाय महानेकः स्तम्भः स्थापितः / तस्य मूर्ध्नि चत्वारि चक्राणि सवलानि तावन्ति चैव तान्यवलानि स्थापितानि / तेषां मध्यगा राधा नाम्नी पुत्तलिका कृता / तस्या वामनेत्रं काणमकरोत् / स्तम्भोपरि तान्यष्टचक्राणि तथाऽतिष्ठिपत् / यथा तेषां मध्यगो भूत्वैव बाणो राधाचक्रं विध्येत् / अधश्च तदभिमुखं सन्तप्ततैलभृतं लोहकटाहममुञ्चत् / इतश्च दिव्याम्बरा महाहरत्नाभरणाऽलङ्कृता सा राजकुमारी पञ्चवर्णसुरभिकुसुममालां निजपाणिपल्लवे दधाना वयस्याभिः सह तत्र स्वयम्बरमण्डपे समागत्य तस्थौ / सर्वे च राजपुत्राः पौरजनैः सह धृतोज्ज्वलवसनाऽऽभरणास्तत्रागताः स्वस्वयोग्यमासनमलञ्चक्रुः / इन्द्रदत्तराजाऽपि प्रधानादिनिजमण्डल्या सह तत्राजगाम / तत एकैकशः कुमारा धनुर्बाणधरा राधाचक्र वेद्धं लग्नाः, परन्तु कियन्तस्ते चक्रद्वयं विव्यधुः, कियन्त एकमेव, अन्ये चक्रत्रयम्, कश्चिञ्चत्वारि, केचन पञ्चचक्राणि, कश्चन षट्चक्राणि च विव्याध / इत्थं तेषामेकोऽपि कुमार एकदैवैकेनैव बाणेन तच्चक्राष्टकमाविध्य मध्यस्थां राधां वेदूं यदा न शशाक / सर्वे च कृतप्रयत्नास्ते द्वाविंशतिराजपुत्रा विच्छायवदना हताशा अभूवन् / तदा राज्ञो महती चिन्ता जाता / यथा-अहो ! ममैतेषां पुत्राणां शौर्यादिगुणगणमाकर्ण्य स्वयम्वरेयं राजकुमारी मम सभामागताऽस्ति / तस्याश्च पणः केनापि मत्पुत्रेण नापूरि / सेयमितो यदि परावर्त्यति, तर्हि जगति ममाऽपकीर्तिमहती भविष्यति / इत्थं शोचन्तं विच्छायवदनं राजान मन्त्री जगाद / हे प्रभो ! मा शोचीः पुनस्तवैक: सुपुत्रो वर्तते / सोऽवश्यमेतत्साधयिष्यति / राज्ञोक्तम्
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy