________________ धर्मव: मुकावली $#$$#$%**% वा विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरतातिनिकृष्टा / कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां म विशिष्टाः // 1 // अथैकदा तस्या गृहे कश्चिदचलाऽभिधो व्यवहारी समागत्य कुमारं तत्राऽऽसीनमपश्यत् / तत्रावसरे द्वयोरपि व्यवहारिकुमारयोमियो वादप्रतिवादो जज्ञे तदनु स मूलदेवो पुतव्यसनीबभूव / तेन तन्मात्राकया स निष्काशितः। ततो भिक्षुषं विधाय स देशान्तरमचलत् / ग्रामानुगाम पर्यटन स दिनत्रयानन्तरं कस्यचित्तटाकोपकण्ठमेकं संन्यासिनो मठमपश्यत् / तत्रैव गत्वा रात्री शिष्ये / तत्रार्धनिद्रितः स रात्रिशेषे षोडशकलापूर्ण चन्द्रम्पीतवान्, पश्चाज्जागृतः स तादृशस्वप्नेन मनसा जहर्ष / तत्रैव तत्पार्श्वे सुप्तः कश्चन तन्मठपतिशिष्योऽपि तदा तादृशमेव स्वप्नमपश्यत् / प्रभाते च शिष्यस्तत्स्थमफलं गुरुमपृच्छत् / गुरुणोक्तम्-ईशस्वमदर्शनादद्य ते गोधूमस्थूलरोटिका घृताक्ता सगुडा मिलिष्यति / तदाकये मूलदेवो दथ्यो, मम तु विशिष्टमेव तत्फलं किमपि भविष्यति / तत उत्थाय स शिष्यो भिक्षायै नगरान्तः प्राविशत् / तत्र च कस्याश्चित् स्त्रिया मृतवस्सायाः सन्ततिजीवातवे कश्चिद्भिक्षुको मान्त्रिकोऽवदत् / हे मृतवत्से ! त्वमेतदर्थ गोधूमचूर्णकृतां करपट्टिका निर्माय ताश्च धृताभ्यक्तां विधाय तां सगुडां भिक्षवे देहि, ततस्ते सन्ततिर्जीविष्यति, तद्दिने सा मृतवत्सादोपापमोदनकृते तथा कृतवती पुनः कस्यचिद्भिक्षो रागमनं प्रतीक्षमाणाऽऽसीत् / दैवयोगात्स शिष्यस्तद्गृहं गतवान् / तदा सा तस्मै सां घृतपूर्णो गोधूमस्थूलकरपट्टिका सगुडां | ददौ / तदिने यथा कथितं गुरुणा तथैव सेनापि लब्धमतो हृष्टो गुरोर्माहात्म्यं लोके जल्पन गुर्वान्तिकमागात / इतश्च सोऽपि मूलदेवस्तन्मठामिर्गत्य कस्यचन मालाकारस्य वाटिकामागत्य तश्च प्रसाध तत्प्रदत्तफलपुष्पादिकमादाय नैमित्तिकालयमासाद्य *RESS_FIEL 35 //