SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ददते, कस्मैचन नगरं ददाति / कयोश्चिद्वादिप्रवादिनोायं करोति / कञ्चन कोष्ठपालपदे नियुङ्क्ते। इत्थं रममाणश्चन्द्रगुप्तं वीक्ष्य चमत्कृतश्चाणक्यतापसः कश्चिदपृच्छत् / भो! अयं कस्य पुत्रोऽस्ति ? एषः शिशुस्तस्य तापसस्याऽस्ति, येन राज्याश्चन्द्रपानदोहदः समपूरि / तच्छ्रुत्वा चाणक्यो जहर्ष / तस्मिन्नवसरे तत्रागच्छद्गोवृन्दमालोक्य चाणक्यश्चन्द्रगुप्तमगदत् / महाराज! त्वमधुनाऽनेकेभ्यो ग्रामनगरादिदत्तवानसि / अहमपि तव शुभेच्छुाह्मणोऽस्मि, मह्यमपि किमपि देहि / तच्छ्रुत्वा तस्मै चन्द्रगुप्तस्तद्गोवृन्दं ददौ / जगाद च वीरभोग्या वसुन्धरेति / ततस्तं सोऽवक-हे वीरशिशो ! त्वमेहि मया सह ते राज्यं ददामि / इत्युक्त्वा तं सार्थ नीत्वा स ततोऽग्रे चचाल। अथ स चाणक्यश्चन्द्रगुप्तं बालराजं विधाय स्वर्ण सिद्धयपार्जितधनेन सैन्यानि च कृत्वा तस्मिन् पाटलिपुत्रे पुरे नन्दराजेन सह योद्धमुपागतः / सोऽपि ससैन्यस्तदभिमुखमाययौ / जाते च मिथो युद्धे नन्दराजस्तत्सैन्यं लीलया क्षणेनैव जिगाय / ततो नष्टे | सैन्ये चन्द्रगुप्तबालकेन सह सोऽपि पराजितः कथमपि कान्दिशीकमनाः पलायितः / कियदरं पृष्टानुगाद्धननाय नन्दराजतो मार्गे कुत्रापि गुप्तस्थले चन्द्रगुप्तं संस्थाप्य स्वयं तापसवेषं विधाय चाणक्यो जीवितं रक्षितवान् / पुनस्तद्वेषेण तत्र नगरे भिक्षामिषेण मयि पराजिते नगरे के किं वदन्तीति ज्ञातुमिच्छुः समागत्य पर्यटितुं लग्नः। अथैवं कुर्वन्नेकस्या वृद्धाया गृहाये तस्थौ। तत्रावसरे तद्गृहे द्वित्राः शिशवः खादितुमुपविष्टाः / सा च वृद्धा तेभ्यस्तत्कालकृतमत्युष्णं भोजनं दत्तवती / ते च तन्मध्ये ग्रहीतुं करान्ददुस्तदा सन्तप्तकरास्ते भृशश्चक्रन्दुः / तत्रावसरे तानूचे सा / रे शिशवः ! यूयमपि चाणक्यवन्मूर्खा एव भाथ / तदाकर्ण्य स तामपृच्छत्-हे मातः ! चाणक्यः किमकरोत् / येन तं मूर्ख भणसि / सा कथयति हे तापस ! स पुरावागतो राजसिंहासन HERBARS-CAROBAR
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy