________________ मुक्तावली // 32 // दमाख्यात् / तच्छ्रत्वा तापसेनोक्तम्-राजन् ! यद्यसौ न पूर्येत तर्हि जीवद्वयस्य हानिर्भविता / राजा वक्ति तत्तु स्यादेव, परन्तु यथा दोहदस्य पूर्णतां विक्षय जीवद्वयस्य रक्षणं भवेत् तादृगुपायः कोऽप्यस्ति चेद्वद / तदाकर्ण्य तापसो वक्ति-भो राजन् ! उपायो वर्तते, परं तथा करणे मे किं दास्यसि ? राजा ब्रूते / हे तापस ! यचं प्रार्थयिष्यसि तद्दास्यामि / पुनस्तापसेनोक्तम् हे राजन् ! एनं गर्भस्थं बालकं यदि मे दद्यास्तहि तं दोहदं पूरयित्वा जीवद्वयं रक्षामि / राजाऽप्येतदङ्गीकृतवान् / एतच्च तत्रत्यकियत्प्रधानजनसमक्षे तापसो राज्ञा स्वीकारितवान्, ततः सकाशात्प्रमाणपत्रमपि लेखयित्वा स्वयं गृहीतवान् / अथैष तापसो राश्या दोहदपूरणाय तृण्मयमेकं सम निर्मापितवान् तदुपरि चन्द्रांशुपाति गुप्तं छिद्रं विधाय गृहान्तर्मध्यभागे च राजतस्थालकं क्षीरभृतं विहितवान् / पौर्णमास्या रात्रौ पोडशकलापूर्णचन्द्रमसः प्रतिबिम्बो यदा कृतच्छिद्रद्वारा तत्र स्थालके पपात / तदा तत्र सुप्तां राज्ञीमुत्थाप्य राजा जगाद / हे प्रिये ! तब भाग्ययोगात्पूर्णचंद्र इहागतोऽस्ति, तमधुना यथेष्टं पिब / राज्यपि दोहदानुसारेण तथा स्थितं सुधांशुं वीक्ष्य पातुं लग्ना, सा च यथा यथा क्षीरम्पपौ, तथा तथा गृहोपरि कृतविवरमावृणोत् / ततः स्थालस्थे क्षीरे निःपीते विवरस्य पिधानेन प्रतिविम्बितश्चन्द्रोऽप्यदृश्यो जातः / निःशई मया चन्द्रः पीत इति सा राज्ञी प्रमुदिताऽभूत् / इत्थं बुद्धिचातुर्येण मयूरपालराजपत्न्या ईदृशो दोहदस्तेनापूरि / ततो दशमे मासे शुभमुहूर्तेऽनेकोच्चगे शुभग्रहे राज्ययोगलग्ने सा पुत्रमसोष्ट / तस्मिञ्जाते राज्ञा महामहश्चक्रे / ततो द्वादशेऽहनि पिता तस्य दोहदानुसारेण चन्द्रगुप्त इति नाम धृतवान् / / इतश्च चाणक्यस्तापसवेषी नानादेशम्पर्यटन स्वर्णादिसिद्धिकरी विद्यामधिगतवान् / अथाऽन्यदा तस्मिन् मयूरपालराजनगरे पुनरागतवान् सः / तत्र चाज्नेकान् चालकानेकीकृत्य बालक्रीडां कुर्वन् स्वयं राजा भूत्वा कञ्चन प्रधानं कृत्वा कस्मैचिद् ग्राम