SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तदुपरि स कमण्डलुं स्थापितवान् / पुनस्तया मृतीयमासनं दर्शितं, तत्रापि तेन पवित्री स्थापिता, ततस्तया चतुर्थमासनं दर्शितं तत्र दंडस्तेन स्थापितः / इत्थं तया यधदासनं दर्शितं तदखिलमायत्तीकृतवान् / इत्यालोच्य सञ्जातरोषया दास्या बलादुत्थाप्य निकाशितः स बहिः। तत्राऽवसरे तेनैवं सा निगदिता कोशेन भृत्यैश्च निबहमूलं, पुत्रैश्च मित्रश्च विवृहशाखम् / / उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः // 1 // हे दासि! मां तदैव झास्यसि / यदा ते नन्दराजस्येदं राज्यं ग्रहीष्यामीति / दास्योक्तम्-च्छ 2 सत्वरमितोऽपसर / स्वादृशो रङ्कः प्रत्यहमत्र द्वित्रिरायात्येव / अथ चाणक्योऽपि दास्या तिरस्कृतः साधुभाषितं राज्यमन्त्री भविष्यत्यसाविति स्मृत्वा कस्यचिद्राज्यकारिलक्षणाङ्कितस्य पुंसः शोधनाया चचाल / नन्दनृपाश्रितमयूरपालस्य राज्ञो नगरे समागत्य तापसवेपं विधाय मिक्षितुं लगः। इतश्च मयूरपालराश्याः पूर्णचन्द्रपिपासालक्षणो दोहदः समुदपद्यत, परन्तु तस्य पूर्तिः केनापि कथमपि नाकारि / अतः सा तद्दाखेनाऽन्वहं कृशतरा जाता / तां तथावस्थामालोक्य राजापृच्छतु / अयि प्रिये ! तव किं भवति / येनेदृक् कार्य तव वपुषि दृश्यते / ततः सा निजदोहदं तादृशमगदत् / कथितच हे स्वामिन् ! पोष दोहदो मे पूणों न भविष्यति, तर्हि मरिष्यामि / अत्र सन्देहं मा कार्षीः। इति श्रुत्वा राज्ञो मनसि महती चिन्तोत्पबा तत्राऽवसरे ताक्सवेषी चाणक्यो भिक्षार्थ राजद्वारमागत्य तस्थौ / तं वीक्ष्य राजा तं प्राणमत् / तेनापि पृष्टः हे राजन् ! तव केशी चिन्ता जाता, येन विच्छायवदनः प्रतिमासि / तदा राजा तत्कारणं राश्या दोह
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy