________________ धर्मवर्गः 1 सूक्त- मुक्तावली // 31 // चक्राते / अथ स शिशुः क्रमेण सकलपाखकलाविज्ञाननिपुणोऽभूत् : महाजैनधर्मानुरागी जातः / ततोऽसौ सुरूपलावण्यादिगुणविशिष्टया कन्यया सह पितृभ्यां परिणायितः / अथैतस्य चाणक्यस्य भार्या पित्रालयं विवाहोत्सवे समाहूता ययौ / तत्राऽन्याप्यस्या भगिनी समागताऽऽसीत् / तस्याश्च धनादिसमृद्धतया मातापित्रादिकः सर्वोऽपि परिवारो बहादरं ददौ। चाणक्यपत्नी तादृशी धनवती श्रीमती नाऽऽसीदतोऽस्याः सत्कृतिस्तथा नाऽकारि पित्रादिभिः। अथ विवाहोत्सवानन्तरं सा निजालयमागत्य प्रसङ्गक्शात्पित्रादिविहितापमानं भर्तारमाख्यत् / तदाकर्ण्य किश्चिद्विढूनमनाश्चाणक्यश्चितयति चन्यते पदवन्धोऽपि, बदपूज्योप पूज्यते / गम्यते यदगम्योपि, स प्रभाधो धनस्य तु॥१॥ यस्यास्ति वित्तं स नरः कुलीमः, स पण्डितः स श्रुतवान् गुणज्ञः। स एव वक्ता स च दर्शमीयः, सर्वे गुणाः काचनमाश्रयन्ति // 2 // ततःप्रचुरलक्ष्मीसमर्जनाय विदेशयात्रामकरोत् / स मार्ग व्रजन्नेवं प्रतिज्ञातवान् / यदि प्रचुरधनप्रदानेन निजप्रेयसीमनः सन्तुष्टि न कुर्यो तर्हि मम जीक्तिमपि मुधैव / अत्राऽन्तरे कश्चिद् ब्राह्मणो मार्गे मिलितः। तमेवमपृच्छदसौ भो ब्राह्मण ! कुतः समागतोऽसि ? तेनोक्तम् / पाटलिपुत्रे नगरे नन्दनामा राजा प्रतिवर्ष मे दक्षिणां ददते / तां लातुं तत्राऽहं गतवान् / परन्तु स इदानीमन्तःपुराद् बहि याति / अतः परावर्तमानो निजगृहं प्रजामि / तन्मुखादित्याकर्ण्य चाणक्यः पाटलिपुत्रपुरमागतः / ततो राजसदसि समागत्य शून्यं मृपासनमालोक्य सदुपरि समुपाविशत् / तत्रोपविष्टं तमालोक्य कयाचिद्राजदास्या मणितः हे द्विज ! राजसिंहासनं त्यक्त्वाऽन्यस्मिनासने समुपविक्षेति कथिते तेनोक्तम् / हे दासि ! अन्वदासनं दर्शय / दास्या पार्श्वस्थमेकमासनं दर्शितम् / ERRERORRABORIDORE 31 //