SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ SECTERSITESCRIBE भोजनमदीनारं दक्षिणाश क्रमशः प्रयच्छन्तु" इति राजमुद्रादिनाङ्कितं प्रमाणपत्र दत्तम् / तत्प्रमाणपत्रं लात्वा | स ब्राह्मणः स्वसमाऽऽगतः। ततःप्रभृति स प्रत्यहं तथैव भुञ्जान एकैकदीनारदक्षिणाञ्जगृहे / इत्थर्वतस्तस्य द्विजस्य चक्रवर्तिगृहे पुनर्मोक्तुं समयो यथा नाऽयासीत् / यतस्तस्य चक्रवर्तिनो द्विनवतिसहस्रोत्तरलक्षपत्नीनामावासादयस्तावन्तः पृथक् प्रथगेवाऽऽसन / पुनस्तस्य महानगराणां द्विसप्ततिसहस्राण्यासन् / एकैकस्मिन् सहस्राणि लक्षाणि च गृहाण्यासन् / एवं ग्राम-कवेटमण्डपद्रोणादयस्तस्याऽऽसन्, एतेषां मध्ये तस्मै चक्रवर्तिगृहे पुनर्मोजनाऽवसरो यथा दुर्लभो दृश्यते, तथैवाऽमीषां प्राणिनां महता यत्नेन सुकृतशतयोगेनैकदा लब्धमिदं मानुष्यञ्जन्म प्रमादादिवशाद् गतं सत् पुनर्लभ्यं कदापि न भवितुमर्हति / अतः प्रमादादिकं विहाय सर्वैरप्येतदतिदुर्लभं लब्धं मनुष्यत्वं धर्माराधनेन साफल्यमवश्यमेव नेयमिति / २-अथ मनुष्यत्वदौर्लभ्ये पाशकस्य-११ दृष्टान्त:तथाहि-अस्मिन्नेव भरतक्षेत्र गोलकदेशे चणकाख्यपुरे चणकाभिधः कश्चिदेको ब्राह्मणो निवसति स्म / तस्य चणेश्वरी नाम्नी भार्याऽऽसीत् / तौ दम्पती जैनधर्मानुरागिणावभूताम् / चणेश्वर्याः कुक्षौ सदन्तः पुत्र उदपद्यत / जातं तथाभूतमालोक्याऽनिष्टशङ्कया सा शिशोर्दन्तमत्रोटयत् / एकदा तद्गहे कश्चन साधुराययो / सा तं साधुं निजसदन्तपुत्रजन्मफलमपृच्छत् / तनिशम्य साधुना तत्फलमित्याख्यातम्-असौ जातको राज्यं भोक्ष्यति / तच्छ्रत्वाऽतिहृष्टा माता पृच्छति हे मुने! मयाऽनिष्टशङ्कयाऽस्य गर्भानुगो दन्तस्त्रोटितः / ततो मुनिरवादीत-हे सुभगे ! दन्तघर्षणादसौ स्वयं राज्यभोक्ता न स्यात्, किन्वन्यङ्कश्चन राज्यासने संस्थाप्य राज्यभोगी भविष्यति / तत्फलाडकर्णनेन तो नितरां जहषतः / ततस्ताभ्यां तस्य शिशोश्वागत्येति नाम
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy