________________ धमेवार मुक्तावली // 30 // भवेत्तन्मार्गय तत्ते दास्यामीति / अतोऽहं त्वां प्रष्टुमिहागतोऽस्मि, ततः किं मार्गणीयमिति विचार्य सत्वरं ब्रूहि यस्मिल्लब्धे यावज्जीवमहं सुखी स्याम् / इति श्रुत्वा मनसि चिन्तयति समुत्पनबुद्धिशालिनी सा प्रवर्धमानः पुरुषस्त्रयाणामुपघातकः / पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनां // 1 // यद्यसौ चक्रवर्तिन एकदैव प्रचुरं धन प्रामादिकं राज्यं वा लप्स्यते, तदाऽसौ धनमदादन्यां काञ्चन रूपलावण्यवती युवतीं परिणीय मां हास्यति / ततोऽहं दुःखभागिनी भविष्यामीत्यादि विचार्य, तयैवं भणितो द्विजः। हे नाथ ! मम राज्यं न रोचते, यतस्तस्मिन् बहुशो विपद आपतन्ति / धनादिमार्गणे दिवानिशं चौरादिचिन्ता भविष्यति / मम तु तदेव रोचते येन निर्विघ्नतयाऽऽवयोः पुत्रपौत्रायनेककुलपर्यन्तं सुख स्यात् / एतादृशङ्किमस्ति, यत्वं प्रसन्नश्चक्रवर्तिन याचिष्यसे तदाकर्ण्यताम्-हे नाथ | त्वं याहि चक्रवर्तिनमेवं वद, हे चक्रवर्तिन् ! तव राज्ये ! सर्वे लोकाः प्रतिदिनमनुक्रमेण यथारुचि भोजनं सकृद्दीनारदक्षिणाप्रदानपुरस्सरं मे तवाऽऽदेशाद्ददतु, एतावतैव मे सन्तुष्टिरस्ति / इतोऽन्यत्किमपि सुखदं न वेनि / तदा चक्रवर्तिनोक्तम्-हे ब्राह्मण ! मयि प्रसन्नेऽभीष्टं ददमाने राज्यादिकं त्यक्त्वा तुच्छमिदङ्कि याचसे / / राज्यं ते दित्सामि, तत्किमिति न गृह्णासि / द्विजो वक्ति-हे पृथ्वीनाथ ! राज्यम्प्रचुरन्धनादिकं वा यदि मे दास्यसि, तदा मे दुःखान्यनेकानि तथा ब्राह्मण्यकर्मावरोधश्च सम्भविष्यति, अत इदं मत्प्रार्थितमेव देहि / चक्रिणा विचारितम्| जो जत्तिअस्स अस्थस्स, भायणं तस्स तत्ति होइ / बुट्टे वि दोणमेहे, न डंगरे पाणिय ठाइ // 2 // ततस्तेन ब्रह्मदत्तचक्रवर्तिना तस्मै ब्राह्मणाय "अस्मद्राज्ये सर्वे लोका अस्मै ब्राह्मणाय प्रतिदिनमेतदिच्छानुसारेण POSITOREXXBLUCAR-RECEREST