SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ BUSERS-8- अप्युदवोढ / षट्खण्डायाः पृथिव्याश्चक्रवर्ती राजा जातः / तस्य पण्णवतिकोटिग्रामा अभूवन् / महानगराणां द्विसप्ततिसहस्रमासीत् / पट्टनमष्टचत्वारिंशत्सहस्रं बभूव / लघुग्रामादयस्त्वसंख्याता आसन् / द्रोषादयो नवनिधयोऽपि तदायत्ता बभूवुः / रत्नानां चतुर्दशाऽऽसन् / किञ्च-पण्णवतिकोटिपदातयः / गजेन्द्राश्चतुरशीतिलक्षाः, तावन्तोऽश्वाश्च, एतावन्तो स्थाश्चाऽभवन / एवञ्चतुरङ्गसेनया शोभमानः पञ्चविंशतिसहस्रदेवैः संसेव्यमानो द्विनवतिसहस्राधिकलक्षदाराभिः सह सुखं भुञ्जानो ब्रह्मदत्तचक्रवर्ती महत्या समृद्ध्या तां कांपिल्यपुरीमाजगाम / तत्कालमेव महादुष्टं तं दीर्घपृष्ठनृपं यमराजसदनाऽतिथि व्यधात् / साऽपि चुलनी राज्ञी त्रस्ता सती नष्ट्वा दीक्षामग्रहीत् / शुद्धसंयम परिपालयन्ती कृतकर्माणि क्षपयन्ती तस्मिन्नेव भवे मृत्वा मोक्षमाप / इत्थं ब्रह्मदत्तसार्वभौमः प्रजाः पालयन् सुखेन पट्खण्डां महीं शशास, वरधनुः प्रधानपदे तिष्ठन् न्यायेन सर्वे राज्यकार्यङ्करोतिस्म। अथकदा येन ब्राह्मणेन सार्धमष्टचत्वारिंशतक्रोशपर्यन्तामटवीमुल्लचितवान, ब्रह्मदत्तश्चक्रवर्तिनमाकर्ण्य काम्पिल्यपरे त्वयावश्यमागन्तव्यमिति बचनञ्च यस्मै पुरा दत्तवान् स ब्राह्मणो, ब्रह्मदत्तश्चक्रवर्ती जात इत्याकर्ण्य तद्दत्तवचनश्च संस्मृत्य तत्राऽऽगतः / ततस्तं मिलित्वा पूर्ववृत्तं निगदितवान् / चक्रवर्तिनाऽपि स समुपलक्षितः / कथितञ्च हे भट्टराज ! मम | सर्वमपि स्मृतिपथमारोहति / अहं तवोपरि तुष्टोऽस्मि / अत इदानीमीप्सितं दानमहं तुभ्यं किं ददामीति बेहि ? तत्राऽवसरे तेनोक्तं हे राजराजेश्वर ! अहं भार्यामापृच्छय पुनरिहागत्य यथेष्टं याचिष्ये / राज्ञोक्तं तथाऽस्तु याहि, ततः स गृहमागत्य पत्नीमतिहृष्टो जगाद / अपि प्रिये! स ब्रह्मदसचक्रवर्ती काम्पिल्यपुरे मिलितः, मयि प्रसन्नो भूत्वा वक्ति-हे भट्ट ! तव यदीप्सितं SXECIRBEO
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy