________________ धर्मवर्ग:१ मुकावली // 29 // BEOSANEELA-BECA यावश्यन्तौ गच्छन्तौ तौ कियत्कालानन्तरं भवितव्ययोगान्मिथो वियुक्तौ बभूवतुः / तत्कथा चात्रमहत्वादनवसरत्वाचन दयते, किन्तु संक्षेपेण किश्चिद्दर्शयामि / इत्थं ब्रह्मदत्तकुमारः शतवर्षाणि पर्याटत् / क्लेशाश्च सोढुमशक्या अनेके महान्त आपुः / अनेके दाराश्च बभूवुस्तैः सह सुखं स्वैरं भुञ्जानः स कालं व्यतीयाय / सर्वमेतद् ब्रह्मदत्तचरित्रे विस्तरं विलसति / तत एवैतदधिकजिज्ञासावद्भिर्बोध्यम् / अथ वियुक्ते च वरधनुनाम्नि मित्रे कुमार एकाकी पर्यटन्नष्टचत्वारिंशत्क्रोशान्तमरण्यम्प्राप्तवान् / तच्च श्वापदादिदुष्टजीवैराकीर्णमतिभयास्पदमासीत् / तस्मिन निर्जने वने चैकाकी गन्तुमशक्नुवन किङ्कर्तव्यतामूढः स कुमारः कमपि सार्थवाहं प्रतीक्षमाण एक ब्राह्मणमपश्यत् / तेन सह कुमारस्तत्र महाकानने चचाल / मध्याह्येच कुत्रापि जलाशये समुपविश्य ब्राह्मणः स्वयं सक्तूनखादत् / कुमारस्य तु किञ्चिदपि न दत्तम् / सोऽपि तस्मात्तन्न ययाचे / इत्थं तृतीये दिवसे समुल्लअघितमहावन कुमारमेवमूचे द्विजः। भो बालक! तव दिनत्रयमशनादिकं विना यातमाअत इदानीमनेन मार्गेण सुखेन समीपवति नगरं याहि। तत्र गत्वा सुखी भविष्यसि। इति निगद्य ब्राह्मणश्चचालातत्राऽवसरे ब्रह्मदत्तेन स भणितः। भो ब्राह्मण! त्वया ममोपकारो महान् कृतः। यस्य स्मृतिराजन्म मम स्थास्यति अतोऽहमिदानी तत्प्रतिक्रियाङ्कतु नार्हामि / यदा त्वं ब्रह्मदत्तश्चक्रवर्तिनं शृणुयास्तदा त्वमवश्यमस्मत्पार्श्वमागन्तासि / अहं क्षत्रियपुत्रोऽस्मि, तदा ते मनोऽभीष्टमहं पूरयिष्यामि / इति कुमारोक्तं श्रुत्वा ब्राह्मणो मनसि चिन्तयति / एतादृशा रङ्कजना बहुधा मे मिलितास्सन्ति / अतः कथमसौ चक्रवर्ती भविष्यति / भवतु, तथापि योग्याशीर्दया, इति विचिन्त्य स वक्ति-हे महाभाग्यशालिन् ! त्वं भाग्यवानसि | तव मनोरथः सर्वः परिपूर्णतामुपैतु / इत्याशिषा कुमारमभिनन्य ब्राह्मणश्चचाल / ब्रह्मदत्तोऽपि द्विजादिष्टपथेन नगराऽभिमुखश्चचाल, इत्थं ग्रामानुग्रामकाननादिषु पर्यटन कुमारः शतवर्षाणि निनाय / मध्ये च स राज्ञां विद्याधराणाञ्च द्विनवतिसहस्राधिकलक्षङ्कन्या USESIXE