SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ COMSO- यथा-अयि प्राणेश्वरि ! अद्यप्रभृति त्वत्सङ्गतिं त्यजामि, नो चेदवश्यमसौ ते पुत्रो मां मारयिष्यति / तदा सोवाच-हे प्राणनाथ ! अहं त्वां कदाचिदपि त्यक्तुं नेच्छामि / त्वां विना क्षणमप्यहं जीवितं धर्तुं न शक्नोमि / मां विसृज्य कथङ्गन्तुमिच्छसि / तदा दीर्धेण दुष्टेन पुनरुक्तम्-तर्हि सत्वरं निजपुत्रं मारय, येनाऽऽवयोः सुखश्चिरस्थायि भवेत् / इत्याकर्ण्य सञ्जातहर्षया विषयसुखलोभेन निजपुत्रमारणमङ्गीकृतं तया चुलन्या, ततः पुनरसौ दीर्घपृष्ठराजा पुरेव स्वैरं तया सह क्रीडितुं लग्नः / इतश्च झटिति पुत्रं निहन्तुमिच्छन्ती सा दुष्टा कस्यचित्कणयरदत्तस्य राज्ञः कुमार्या सह निजपुत्रस्य ब्रह्मदत्तकुमारस्य विवाहाऽवधारणं निश्चिक्ये / तत एक लाक्षागृहं निर्माप्य निजपुत्रमवोचत / हे पुत्र ! अस्मत्कुले चैषा रीतिरस्ति यः पाणिग्रहणं कुरुते, स वध्वा सह प्रथमदिने लाक्षागृह एव स्वपिति / सरलाशयः कुमारः सनातनी कुलपद्धति मत्वा तयोक्तं सहर्षमुररीचक्रे / एतत्स्वरूपं धनुनामाऽतिवृद्धो मन्त्री विदित्वा मनसि दध्यौ / अहो ! मया कदाप्येषा रीतिरेतत्कुले न श्रुता नैव दृष्टास्ति / नूनमनया दुराशया राझ्या कुमारमारणायैष प्रपञ्चो विहितः / इत्यवधार्य तेन वृद्ध मन्त्रिणा कणयरराजानमेवं सूचितम् / यथा-मो राजन् ! विवाहानन्तरं ब्रह्मदत्त कुमारेण सह निजपुत्री मा प्रैषीः। काचन दासी तद्वेषभूषिता तेन सह प्रेषणीया / अन्यथा तवापि पश्चात्तापो महान भविष्यति / तत्कारणं पश्चाद् बोधयिष्यामि / कणयरराजा मन्त्रिवचनानुसारेण तथाकर्तुं मनस्यवधारितवान् / पुनरसौ मन्त्री निजपुत्र वरधनुमेवमशिक्षयत-भोः पुत्र ! कुमारविघाताय दुष्टया राज्या लाक्षागृहं निर्मापितम् / तत्र मातुराज्ञया कुमारः राजकन्यां परिणीय शयिष्यते तया सह / ततः कुमारस्तत्र गृहे धक्ष्यति / अतः कुमाररक्षाकृते त्वामहं यथा शिक्षयामि त्वया तथैव सावधानमनसा विधातव्यम् / त्वया सर्वदा दिवानिश कुमारसमीप एव स्थातव्यम् / कदाप्यन्यत्र न गन्तव्यम् / तां परिणीयात्राऽऽत्य कुमारो यदा लाक्षागृहे शयितुं BIBLISH
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy