________________ धर्मवर्गः१ सूक्तमुक्तावली // 27 // ABBEDOSB88- ज्ञात्वा भृशमकुप्यन निनिन्दुश्च / परं दीर्घपृष्ठस्य तत्र सञ्जातगाढाऽऽधिपत्यतया ततस्तमपसारयितुं निरोद्धं वा न प्रबभूवुः / दीर्घपृष्ठनृपोऽपितां राज्ञी निःशङ्कमनाः स्वकीयामिव सेवमानस्तद्राज्यस्याऽऽधिपत्यमपि स्वस्मिन् दर्शयन राज्यकार्यमकरोत् / अथैतस्वरूपमतिप्राचीनो धनुनामा मन्त्री ज्ञात्वा वरधनुनामाभिधं स्वपुत्रमब्रवीत् / हे पुत्र ! ब्रह्मदत्तकुमारस्याऽतिप्रेयान् सखा त्वमसि / अत एकान्ते दीर्घपृष्ठनृपस्तन्मातरि यदनाचारं करोति तत्सर्व यथावत्तं सूचय / ततो यथादिष्टं पित्रा तथैव तत्स्वरूपं सर्व ब्रह्मदत्तकुमारं व्यजिज्ञपत स वरधनुनामा मन्त्रिपुत्रः / तच्छ्रुत्वा कुमारस्य कोपानलो नितरां प्रजज्वाल / अथैकदा कञ्चन वायसं हस्या सङ्गतमालोक्य राजसभां तो समानीय सकलजनसमक्षं कुमारोवादीत् / भो भो लोकाः! पश्यत पश्यत यदयमधमः काक उत्तमामिमां हंसी निषेवते,इत्येनं दुराचारिणं हन्मीति निगदन दीर्घपृष्ठसमक्षमसौ कुमारस्तङ्काकञ्जघान / सचितश्चाऽनेन यः कोऽप्यस्मद्राज्ये दुराचारमीदृशङ्करिष्यति तमित्थमेव हनिष्यामीति / एवं कुमारचरित्रं वीक्ष्य भयकातरो दीर्घपृष्ठो नृपो गत्वा चुलनीमवादीदेतत्सर्वम् / तेन कर्मणाऽतिरुष्टा दुष्टा सा राज्ञी मनस्येवं दध्यौ, अमुना दुष्टपुत्रेण किम् ? यो ह्येवं मम सुखे विघ्नायते / तत्रावसरे दीघणोक्तम्-अयि ! प्रिये ! असौ कुमार आवयोश्चरितं सर्व विदितवानस्ति / अतोऽसौ कुत्रचिदिने त्वां मां वा द्वयं वा मारयिष्यति / अतोऽहं त्वया सहैतत्कर्मकरणे विभेमि / अथैतदाकर्ण्य सावादीत-हे स्वामिन् ! त्वमेतेनाऽधीरतां मागाः। स हि बालत्वादेवमकरोत् / ततो भीतिः कापि कदाचिदपि तव न सम्भाव्यते / त्वमुदासीनो माभूः / सत्यक्सरेऽहमस्योपायङ्करिष्यामि / इत्थं तया प्रोत्साहितः स दुष्टः पुरेव तया सह रन्तुं पुनर्लनः / पुनरेकदा ब्रह्मदत्तकुमारो वने कस्यांचित्कोकिलायां मैथुनं विदधदेकं काकमालोक्य, पुरेव तथावश्यं तं राजसभामानीय पूर्ववजधान / पुनर्द्वितीयवारमेतत्कुमारचरित्रं दृष्ट्वा दीपों नितरामभैषीत् / एतत्सर्व सविस्तरं रायै गदित्वा कथितुं लग्नः R // 27 //