SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नारकी वेदनामाकर्ण्य सावधानि सर्वाणि कर्माणि हेयानि / अथ मनुष्यजन्मनि दशभिदृष्टान्तरतिदौर्लभ्यं दर्शयन्नाह गाथाचुल्लगपासगधन्ने, जूए रयणे य सुमिणचक्के अ / चम्मयुगे परमाणू, दस दिटुंता मणुअलंभे // 1 // चुल्लिका 1 पाशक 2 धान्य 3 चूत 4 रत्न 5 स्वप्न 6 चक्र 7 चर्म-कर्म 8 युग 9 परमाणु-दृष्टान्ता 10 दश वर्तन्ते। एते च विस्तरतया ग्रन्थान्तरेण ज्ञातव्याः / इह तु ग्रन्थगौखभिया संक्षिप्तास्ते दर्यन्ते / १-तत्रादौ मनुष्यत्वदौर्लभ्ये चुल्लिकायाः १०-दृष्टान्तःयथा कोपिल्यपुरे ब्रह्माख्यो राजा वर्तते / तस्य महारूपलावण्यवती रम्भासमाना चुलनीनाम्नी राज्यस्ति / तस्या गर्ने चतुर्दशस्त्रमसूचितो ब्रह्मदत्तनामा चक्रवर्ती पुत्र उदपद्यत / तस्य च बाल्यावस्थायामेव तत्पिता ब्रह्मराजा ममार / ततःप्रभृति तद्राज्यं ब्रह्मराज्ञः सुहृदश्चत्वारो नृपा अनुक्रमेण रक्षितुं लग्नाः। प्रथमं सर्वेषामाज्ञया दीर्घपृष्ठनामा कश्चिन्नृपस्तद्राज्यरक्षायै सर्वैः स्थापितः। तदनु सोऽन्तःपुरे गमागमं विदधत, तारुण्यमञ्जरीमतिसुन्दरीमप्सरसमिव तां चुलनीं राजीमलोकत / ततस्तस्यांस महानुरागी जातः। साऽपि तस्मिन् रागवती बभूव / द्वयोश्च परस्परावलोकनसरसभाषणादिना मदनो नितरामवर्धत तयोमिथस्तथा रागोवर्धत, यथा तावुभौ क्षणमपि विश्लेषं सोढुं नाशक्नुताम् / ततोऽचिरादेव तयोः कुत्सिताऽऽचरणं सर्वैरपि ज्ञातम् / यतः-चौर्य मासचतुष्टयेन पारदारिकं षभिर्मासैरुद्घटं भवत्येव गुप्तमपि पापाऽऽचरणं जले तैलमिव बहिरायात्येव / तदितरेऽपि राज्ञः सखायस्तत्स्वरूपं
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy