SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ रक्त धर्मवर्ग: मुक्तावली // 26 // SEELCASEXXSECRECEBS वक्तुमपि युज्यते / यदि संसारादुद्विग्नोऽसि तर्हि समागते चरमे वयसि त्वया दीक्षा ग्राह्या, नेदानीमित्येव मे श्रेयस्करं प्रतिभाति / परं स्वमनसि सुविचार्य यत्करणीयं तत्करोतु / ततो चक्ति राजा-हे भ्रातः ! नाऽहं भ्रान्तोऽस्मि, तवैव मतिविभ्रान्ता दृश्यते, यत्वं मां राज्ये स्थापयितुमिच्छसि / अरे ! किमिति नीति न स्मरसि " गृहीत इव केशेषु, मृत्युना धर्ममाचरेदिति " / अतस्त्वं राज्यं गृहाण / इत्युदीर्य तस्मै राज्यं दत्त्वा स्वयमेव गुर्वन्तिकं गत्वा प्रव्रज्याञ्जग्राह / अथ सुरप्रभो राजर्षिः सम्यक संयम समाराधयन महता तपसा जपादिना च कर्माणि निर्जरयनन्तेऽनशनं विधाय मृत्वा पञ्चमे ब्रह्मदेवलोके देवोऽभूत् / इतश्च शशिप्रभो राजा धर्माविमुखो भूत्वा सप्तव्यसनाऽऽसेवी मृत्वा तृतीयनरके समुदपद्यत / तत्र तस्य महान्ति दुःखानि सोढव्यानि बभूवुः / तत्रावसरेऽवधिज्ञानेन महाक्लेशमनुभवन्तं निजबान्धवमालोक्य स्नेहवशात् स सुरप्रभो देवस्तदन्तिकमाजगाम / तत्र तथावस्थं तं वीक्ष्य मोहवशात्तं तत उद्धर्तुकामेन प्रयतितेऽपि तस्य प्रत्युत क्लेशाधिक्यमेव जज्ञे / तदा देवस्तमेवमुवाच-हे भ्रातः! मया बहुधा वारितोऽपि त्वं पापान न्यवर्तथाः / अत एवंविधं महाक्लेशमत्रानुभवसि / इदानीं कि क्रियते ? / ततो नारकेयेणोक्तम्मो देव ! मम दुःखादीदृशं विषादं मागाः। लोकैर्यथा क्रियते तथाऽवश्यमेव परत्र भुज्यते, मयाऽपि यथार्जितं कर्म भवान्तरे तथास्त्र भुज्यते, भोग विना कस्यापि जीवस्य शुभाशुभकर्माणि न क्षयन्ति, अथ स देवः स्वस्थानमाययो / शशिप्रभश्च तत्रैव भृशमसह्यानि दुःखान्यनुभवन् कुर्वश्च पश्चात्तापमासीत् / अनया कथया लोकैः सारतया ग्राह्यमवश्यमेतत्, तथाहि-यथा सुरप्रभो राजाऽसारमेनं संसारं हेयमिति ज्ञातवान्, ततो दुर्लभमेतन्मनुष्यत्वं धर्माराधनेन सफलीकुर्वन् देवगतिमाप्तवान् / अधर्मसेवनाच शशिप्रभो राजा नारकी महती वेदनां चिरमन्वभूत, अतः सर्वैरपि सुरप्रभवद्धर्ममार्जयद्भिर्मनुष्यत्वमतिदुरापमिदं सफल कर्तव्यम् / तथा शशिप्रभस्य BECEBO3o // 26 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy