SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ IASEEMSEX किञ्च ये जीवा ईदृशमधिगतं मनुष्यत्वं प्रमादरशाद्विफलयन्ति, धर्म हित्वा पापानि कुर्वन्ति / ते शशिप्रभराजवत्पश्चाचा कुर्वन्तः संसाराारकाननमध्य एव बहुशो भ्राम्यन्ति, कदापि तस्य संसारस्य परम्पारमधिगन्तुं नार्हन्ति / किञ्चैतन्मनुष्यत्वं दश दृष्टान्तश्रवणात्प्राणिनामतिदुर्लभमस्ति / तथापि ये प्राणिनो वीतरागाहतप्ररूपितशुद्धजैनधर्म यथावत् पालयन्ति / तेषामेव विशुद्धो धर्मो भवकान्तारोलचने सार्थवाहतुल्यो भवति // 12 // प्रभादवशदुर्गतिपतनोपरि शशिप्रमराज्ञः ९-कथातथाहि-इहैव भरतक्षेत्रे श्रावस्तिका नाम महती नगर्यस्ति / तत्र सुरप्रभनामा राजास्ति / तदीयो भ्राता कनीयान् शशिप्रभो युवराजपदं भजते / तत्रैकदा धर्मघोषसरिः कतिपयमुनिगणैः सहोद्याने समायातः। तदा झटिति वनपालः साधुसमागमनवर्धापनं राज्ञे ददौ / तदा हृष्टो राजा तस्मै यथेष्टं तुष्टिदानं दत्तवान् / ततो लघुबन्धुना सह महता राजकीयेनाऽऽडम्बरेण राजा गुरुवन्दनार्थ तस्मिन्नुद्याने यत्र गुरवस्तस्थुस्तत्रागतः / गुरून् विधिवन्नमस्कृत्य यथोचितस्थाने सर्वे लोका उपाविशन् / गुरवो हि भवभयहरी धर्मदेशनां ददुः। गुरुमुखाद्धर्ममाकर्ण्य राज्ञः प्रतिबोधो जातः / अथ देशनान्ते गृहातो राजा संसारममुमसारं मन्यमानः सञ्जातविषयवैराग्यस्तदैव शशिप्रभाभिधं कनिष्ठबन्धुं जगाद-हे भ्रातः! इदं राज्यं गृहाण / यदिदं जनान महाघोरनरके पातयति / ममेदानीमपारसंसारसागरतरी दीक्षैव रोचते / अलं मे राज्यादिना / इत्याकर्ण्य शशिप्रभस्तमेवमगदत-हे राजन् ! कोऽयमकाण्डे प्रचण्डचित्तभ्रमो जातोऽस्ति / यदेवमकाले षे / नेदानीं तवेदं यौवने वयसि BUSBBEGI
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy