________________ मासतुषनामानावुभौ भ्रातरावभूताम् / तावुभौ विषयविमुखौ समागतवार्धक्यौ कस्यचन मुनेः पार्श्वे दीक्षामग्रहीष्टाम् / प्राक्तनकर्मदोषवशाच्छ्राम्यतोरपि तयोरेकाक्षरमपि यदा शिक्षितं नाऽभूत्, तदा तयोश्चतसि महान् खेदोऽजनि / अहो! ज्ञानसम्पादनाय यतमानयोरप्यावयोरेकपदमपि नैव समायाति / तधिकज्ञानस्य का वार्ता ? ज्ञानेन विना किलाञ्वयोरन्येऽपि गुणा नैव भवितुमर्हन्ति / तद्विहीना मुनयो लोकैरपि नाद्रियन्ते / इत्थं खिद्यमानमानसौ समुपविष्टौ तावालोक्य गुरुरूचे-भो मुनी ! युवाचिन्तातुरौ कथं दृश्येथे / तदुक्तिमाकर्ण्य स्खचिन्ताकारणं तो तमूचतुः / तच्छ्रुत्वा पुनस्तौ गुरुरवादीत् / भो मुनी! युवाभ्यां सत्यमुक्तम् / परं मुनिमिरखिलैरपि पठितुम्प्रयत्नो यथामति विधातव्यः / यदि कस्यचिजन्मान्तरीय-बानान्तराय-कर्मदोषाद् शानं नायाति तदा तेन मनसि खेदो न कर्तव्यः / यदुक्तं नीतिशास्त्रे-" यत्ने कृते यदि न सिस्थति कोत्र दोषः" अत्र युवयोः को दोषः / यदि कठिनम्पदं शिक्षितं न शक्यते तहि सरलमत्यल्पाक्षरकमपि बबुर्थकमेव पदं युवामई पाठयिष्यामि, यावदेव सुखेन युवयोरायाति तावदेव यथामति यत्नतः प्रत्यहं पठनीयम् / अधिकं ज्ञानमावयोनाऽऽयातीति मा शोचिष्टम् / इत्थं पठतोर्युवयोरल्पज्ञानेनैव कल्याण भविष्यति / ततो गुरुस्तयोः-मा रुष्य-रुष, मा तुष्य-तुप, इत्येतत् पदद्वयमेव पाठितम् / परन्तुबलवत्तरप्राक्तनज्ञानान्तरायकोंदयादेतस्यापि सम्यगुच्चारणं तयोर्नाऽभूत् / तथापि गुरुचसि कृतविश्वासौ तावुभौ तदेव मुहुमुहुर्गच्छन्ती, स्वपन्तो, तिष्ठन्तावम्यसितुं लग्नौ / क्षणमपि तदभ्यासतो न विरेमाते, तन्मुखाच्छ्रान्तः शिशवोऽपि तत्पदद्वयं मुखपाठञ्चक्रिरे | किन्तु तयोः सम्यगभ्यस्तं तन्नाऽभूत् / ततः सर्वदैव तदेवोच्चरन्तौ वीक्ष्य सर्वेऽपि तन्नाम्नैव तावुभौ समावयितुं लग्नाः / यदा तो गोचर्यादि लातुं नगरं गच्छन्तौ तदा ताबालोक्य कियन्तो बालकास्तदीयमोघ-जोहरण केचन वस्त्रं केचिच कम्बलमन्ये