SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली // 24 // CUREXX X लोकान्नोपकुर्वीत / ततः सोऽवक्-हे पुरुषरत्न ! अत्रापि कः सन्देहः / किञ्च-"महतां सङ्गतिकरणाजनानां कुमतिविलयं याति तोयस्थं लवणमिव / सद्बुद्धिश्वोदेति तथैव ममेदानीमतिक्रूरकर्मव्यसनिनोऽपि त्वत्सङ्गत्या सद्बुद्धिरुदपद्यत / अतो हे स्वामिन् ! अद्यप्रभृति तथा न कर्तुमिच्छामि / तथा पौराणां यानि यानि वस्तूनि मयाऽपहृतानि तेभ्यः सर्वेभ्यस्तानि समस्तानि मत्तस्त्वं प्रदापय / येन पौराः सुखिनो भवेयुः / ततोऽभयकुमारः सर्व राज्ञे व्यजिज्ञपत् / ततो राजा नगरे पटहवादनमकरोत् / यथा-भो लोकाः ! भवतां यानि यानि चोरितान्यभूवन तानि तान्यत्राऽऽगत्य परिचीय च गृह्णन्तु इति / अथ पटहवादनेन तत्स्वरूपं विज्ञाय हृष्टाः पौराः सर्वेऽपि तत्रागत्य स्वस्वधनानि समुपलक्ष्य जगृहुः / नगरे चौरोपद्रवोऽपि शान्तो यातः / स चौरोऽप्यभयकुमारसङ्गत्या शुद्धश्रावकोऽभवत् / ततो द्वादशवतधारकः स धर्मध्यानादिकं यावज्जीवं कुर्वन्नन्ते चाऽऽयुषि परिपूर्णे शुभध्यानेन मृत्वा देवगति प्राप। अस्याः कथायाः सारतया लौकैरयमवश्यमेव सारो ग्राह्यः, यथा नीचजातीयः परमस्तेनः प्रभूपदिष्टामेकामेव गाथां कुभावतः सञ्जग्राह / तथापि तस्य महोपकारो जातः / यच्चोरयन्नपि कदापि केनापि स न गृहीतः / सत्सङ्गतिः प्राप्ता, अलभ्यजैनधर्ममाप्तवान् / प्रान्ते चैहिकं पारलौकिकश्च सुखमाप। ये ऽतः शुद्धभावेन भगवद्वाणी शण्वन्ति, तया ज्ञानमर्जयन्ति, तेऽवश्यमेवात्र लोके महत्तरां सुखसम्पत्तिमधिगच्छन्ति, परत्र च स्वर्गापवर्गोभृतां दिव्यां सम्पदमाप्नुवन्ति / अतोऽवश्यमेव ज्ञानोपार्जने लोकैः प्रयतितव्यम् / अथ ज्ञानोपरि मासतुषयोरुभयोर्धात्रोः ८-कथानकम् लोकिकञ्च सुखमापायसनाप कदापि केनापि स परमस्तेनः प्रभूपदिष्टामेकामेव / -8-%-XERCIED) // 24 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy