________________ शिरमा ग्रहीष्यामि / तदर्थमेवाऽऽगतोऽस्मि / इति श्रुत्वा राज्ञोक्तम्-कि भोः! अहं तु कश्चन महान साधुकारोस्त्ययमिति त्वामवेदिषम् / त्वं तु महापराक्रमी दृश्यसे। इत्युदीर्य स्मयमानो भूपतिः प्रधानम्प्रत्येवमवोचत / भोकमा मन विषये किं वदामि, युवामेव यथा लोकाः सुखिनो भवेयुस्तथा कुरुतम् / इति नृपादेशं श्रुत्वा तावुभौ ततो बहिरागत्य क्वचिदेकान्ते | गिताम / तत्रात्मवृत्तं सर्वमादितः स कुमारं जगाद। पुनः कुमारेण स पृष्टः, किं भोः! देवतानां लक्षणं तव कथं ज्ञातमभूत् / अथैवं कसारेण पदे भगवतो महावीरस्य समवसरणमध्ये प्रभुमुखारविन्दतो यथा प्राप्तं तत्सर्वे तथैव तेनावादि-हे स्वामिन ! तद्गाथाऽर्थो मम हृदि सम्यग् लग्नस्ततःप्रभृत्येव में त्वन्मिलने महदोत्सुक्यमासीत् / अत एव पत्रमपि तुभ्यं मया दत्तम / प्रभपप्रभावादेव त्वया सह मेलनं जातम् / मनसि शुभभावोऽप्युत्पन्नः / किमधिकं ब्रवीमि, यथा मत्सदृशो दुराचारी तु कदापि ताशेन महता जनेन सह सङ्गति लब्धं नाऽर्हति / मम तु भाग्ययोगात सर्वमपि जातम् / किश्च हे स्वामिन ! यथैव मे पुराकृतसकतयोगाद्भगवन्मुखारविन्दतस्तादृशोपदेशो यातः, तथैव तव संयोगोपि / ईदृशं सुन्दरमवसरमधिगम्य पुनरीहकर्म कर्तुं नैव बाकामि / हे स्वामिन् ! त्वयाऽपि मम निग्रहाय महानुपायः प्रपञ्चितः, परं भगवदुपदेशलब्धा गाथैव सेदानीं त्वद्रचितजालतो माममोचत / अत्रान्तरे कुमारेण पुनः पृष्टः / किं भोः ! सा गाथा त्वया भावतः शिक्षिता उताभावतः ? / सोऽवक-हे प्रभो ! मम तदग्रहणे मनागपि भावो नासीत् / अहं तु समवसरणमध्यतः पलायमानो भवितव्ययोगात्तां प्रभुवदनसुधाकर-निःस्यन्दितां मधामयीलाथामनिच्छन्नपि श्रोत्राभ्यामपिवम् / तन्माहात्म्यादेव मम सर्वे मनोरथाः सफलीभूताः / ततस्तमेवं कुमारो जगादप्रातः पश्य कीदृशं धर्ममाहात्म्यमिति। यत्ते कुभावतोऽधीतमपि ज्ञानं महदुपकारि जातम् / तर्हि भावतः शिक्षितं ज्ञानं कथङ्कार