________________ धमेवगे:१ सूक्तमुक्तावली 41 22 // दिनं प्रतीक्षमाणः सप्तमे दिवसे दिव्यवसनाऽऽभरणादिना विहिताऽपूर्वशोभस्तद्योग्य प्राभृतमादाय कुमारमिलनाय चचाल / तत्स्थाने समागत्य स्वकीयनियतस्थाने प्रधानमपश्यन् भृशं खेदमावहन् दध्यौ / यद्यहं प्रधानं न मिलिष्यामि, तर्हि प्रतिज्ञा मे विफलीभविष्यति / अतोऽद्य येन केनोपायेन स द्रष्टव्य, इति ध्यात्वा तत्सेवकमपृच्छत् / भोः! कुत्राऽस्ति प्रधान: ? तेनोक्तम् सोऽद्य पौषधं लात्वा पौषधालये धर्मध्याने तिष्ठति / अथ स चौरस्तत्रागत्य कुमारं नमस्कृत्य तद्योग्य प्राभृतीकृत्य तदभिमुखमुपाविशत् / तमागतमालोकयन् कुमारो मनसि चिन्तयति / नूनमयमेव चौरः, अनेनैव पत्रम्प्रेपितम् / यदधुनाऽवधारिते दिवसे सप्तमे स्वप्रतिज्ञापालनाथमत्राऽऽगतोऽस्ति / परमेष प्रायेण बहुधा राजान्तिके मदन्तिके च समायाति / पूर्वपरिचितस्य लक्षणमन्तरा चौरकथनमपि नैव संघटते / परं तत्रावसरे तस्य तत्रागमनादयमेव चौर इति स्वमनसि निश्चितवानपि वेषाडम्बरतया चिरपरिचिततया च तदानामष चार इति व्यक्तीकत स नाशक्नोत / ततश्चौरोऽपि किञ्चित्कालं तत्र स्थित्वा तं नमस्कृत्य गन्तुमैच्छत् / तत्रावसरे कुमारेण स भणित:-हे सज्जन ! प्रभाते पारणासमये त्वया मम गेहे समागन्तव्यमवश्यमेव / सोऽपि सहर्ष बहुमानपुरस्सरं कुमारकृतनिमन्त्रणमुररीचक्रे / अथ जाते च प्रभाते कुमारः पौषधं समाप्य स्वावासं समागतः। तत्रैवं दध्यो-अद्यावश्यमेवात्र निमन्त्रितश्चोरः समेष्यति / तन्मुखादेव चौरोऽहमिति ख्यापनार्थमेकस्मिन् पात्रे चन्द्रहासमद्यमिश्रित दधि स्थापितमपस्मिन पात्रे च निजार्थ शुद्धं दधि स्थापितम् / अथागतस्तत्र चौरः। ततस्तो रोहिणीयकमारौ भोक्तमुपविशतः / भृत्यो हि तस्मै चोराय मद्यमिश्रितं दधि ददो, कुमाराय च शुद्धं ददौ / ताभ्याम्भुक्तम, क्षणादेव स चौरो मद्ययोगाद्विकला जातः। ततस्त प्रमत्त विज्ञाय तमुत्थाप्य निजशयनस्थाने देवराजमन्दिरोपमे निजदिव्यपल्यकोपरि स्वापितः स चौरः / तत्र च पूर्वमेव दिव्या XMARRRRRRRORIES // 22 //