SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 5E3% 83 पायं कुरुष्व / नो चेदस्माकं धनभवनादिकं सर्वमपि गृहाण / अस्मभ्यमन्यत्र गन्तुमाज्ञां देहि / इत्यादि तदुक्तमाकर्ण्य चौरनिग्रहार्थ स राजा ताम्बूल-वीटिका-प्रदानपुरस्सरं नगरे पटहं वादयामास, यः कोपि चौरं ग्रहीष्यति तस्मै यथेष्टं पारितोषिकम्प्रदास्यामीति वाचितश्च / परं कोऽपि तन्निग्रहाय ताम्बूलवीटिकां न जग्राह / तदा श्रीअभयकुमार एवं तम्भिग्रहार्थ तां बीटिकामग्रहीत् / सकलजनसमक्षमुक्तश्चाहं हि सप्ताहाभ्यन्तरे तञ्चौरमवश्यमेव निग्रहीष्यामि / तत्प्रतिज्ञामाकर्ण्य सर्वे तदार्ता लोकाः स्वस्वसनि गत्वा कार्यमारेभिरे / इतश्च महामतिशाली, चतुर्बुद्धिपाली, चतुदर्शविद्यानिष्णातः, द्विसप्ततिकलाकलितः, महासाहसिकः, धीरशिरोमणिधर्मध्वजः श्रीमानभयकुमारोऽपि त्रिपथचतुष्पथादिसकलस्थानेषु तन्निग्रहार्थ बभ्राम / एरं कुत्रापि चौरशुद्धिं नाऽधिगतवान् / एतत्स्वरूपं विदित्वा स चौर एकां पत्रिकामभयकुमाराय ददौ, यथा-हे प्रधान ! अभयकुमार ! स्वमिदानी मां ग्रहीतुं भृशं यतसे, परं मम निग्रहणे कस्यापि शक्ति व दृश्यते। त्वं चतुर्धा सुमति धत्से, मम तु पञ्चधा बुद्धिरस्ति / कदापि केनाऽप्यगृहीतो यदि सप्तमे दिवसे त्वामहं न मिलेय तर्हि-चौरोन स्याम् / इति सेवकार्पिता मुद्रितां तत्पत्रिकामुद्घाट्य पठित्वा स कुमारो महदाश्चर्यमध्यगच्छत् / निजचेतसि दध्यौ च-अहो ! मतिमानसौ चौरः। येन ममाशयं ज्ञातम् / पत्रञ्च दत्तम् / अतश्चौरशिरोमणिः कोऽपि प्रशस्यतमः प्रतीयते / अथाऽभयकुमारोऽपि षड्मिदिनैश्चौरनिग्रहाय कृतप्रयत्नस्य विफलतां वीक्ष्य सप्तमे दिने तेन चिन्तितम् / नूनमद्य स चौरः समेष्यति / यतस्तेन पुरैवावधिदत्तोऽस्ति / ततः स कुमारः सर्वाण्युपकरणानि समादाय पौषधञ्जग्राह / ततः पौषधशालामागत्य दर्भासने समासीनः स्वाध्यायध्यानादिकं कर्तुं लग्नः / तत्रन्यसेवकम्प्रत्युक्तञ्च / भोः सेवक ! यदि कोऽपि मां मिलितुमत्रागच्छेत् स न रोद्धव्यः। इतः सोऽपि रोहिणीयाख्यतस्करः सप्तम
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy