________________ धमवगा सूक्तमुक्तावली // 21 // कार्य सदैव सिध्यति / तेधृताः कुसुमस्रजो म्लाना न भवन्ति / देवा हि पृथिवीस्पृशो न भवन्ति / किन्तु धरातश्चतुरङ्गुलोपयेव ते तिष्ठन्ति / सर्वसुखर्द्धयादिना मनुष्येभ्योऽधिका वर्तन्ते / इत्थं देवान वर्णयन् प्रभुरासीत् / तत्रावसरे कस्यापि समनश्चौर्य कृत्वा त्वरया समागच्छन् स रोहिणेयः समवसरणमध्यत: पलायमानः साधूनालोक्य मातुः शिक्षण संस्मृत्य कर्णी पिधायातित्वरया धावितुं लग्नः। परं भवितव्ययोगात्तस्य चरणः कण्टकेन विद्धस्तेन बहुदुःखीभूत्वाऽग्रे चलितुं यदा नाशक्नोत्तदा तत्रैवोपविश्य यावत्कण्टकं निष्काशयन्नासीत, तावता देवताधिकारविषयिणीमिमांगाथामयीं प्रभोर्देशनां श्रुतवान् / बुद्धितैक्ष्ण्यादेकवारश्रवणेनैव तेन सा गाथा मुखपाठीकृता / यतो हि पुरुषेषु श्रेष्ठानां द्वात्रिंशल्लक्षणानि भवन्ति / चौरास्तु-पत्रिंशल्लक्षणलक्षिता जायन्ते / अतः स ताङ्गाथामविलम्बेनैवाऽभ्यस्तवान् / तां विस्मर्तु कृतप्रयत्नोऽपि न विसस्मार / अथ कण्टकं निष्काश्य निजालयं द्रुतमागत्य मात्रा मिलितश्चौर्यानीतं धनमपि तस्यै समर्पितवान् / इत्थं मातुरुपदेशात्क्रमेण स चौर्यकर्मणि महानैपुण्यं गतवान् / दिने च महार्हवस्वाऽऽभरणादिना मण्डितात्मा महाजनैः सङ्गति व्यत्त / महेभ्यानामापणेष्वपि गत्वा तैः सह परिचयं कुर्वाणो रोहिसेति नाम्ना लोकेषु प्रसिद्धोऽभूत् / ततो महताडम्बरेण महाजनवेष विधाय राजसभायामपि प्रवेष्टुं लनः / समस्ता अपि महान्तो जनास्तस्य परिचिता आसन् / निजया चातुर्यकलयाऽखिलानपि महतो जनान् स निजमित्राण्यकरोत् / रात्रौ च स क्रमशस्तनगरवासिनां सर्वेषां सारभूतानि धनादीनि चोरयित्वा सकलानपि निर्धनानकरोत् / परं कदापि कोऽपि तं नैव जग्राह / ततश्च सर्वे महाजना मिलित्वा राजान्तिकङ्गत्वा विज्ञपयामासुः / स्वामिन् ! सर्वे वयं चौरेण निर्धनीकृताः / अधुनापि यदि चौरनिग्रहो न स्यात्चर्हि वयं केऽपि नाऽत्र स्थास्यामः / वयश्च महाकटे पतिताः स्मः / सत्यरं तन्निग्रहो // 21 //