SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तथाहि-इहैव भरतक्षेत्रे राजगृहनगरे श्रेणिको नाम राजा राज्यं शास्ति / तदीयो महामतिमान् निजपुत्रोऽभयकुमार एव प्रधानोऽस्ति / तस्मिन्नेव नगरे कस्यचित् स्तेनस्य रोहिणीयनामा पुत्रो बभूव / जननान्तरमेव कश्चिन्निमित्तज्ञस्तमालोक्य तस्य मातरमेवमुक्तवान्-असौ ते शिशुश्चारित्रं पालयिष्यति, संसार त्यक्ष्यति तत्र कोऽपि सन्देहो नाऽस्ति / ततःप्रभृत्येवं मात्रा शिक्षितःहे पुत्र ! साधुसविधे कदापि त्वया न गन्तव्यम्, न तत्सन्निधौ स्थातव्यम् / न तेषां बचनादिकं श्रोतव्यम् / यतस्ते बालकान प्रलोभ्य हठाद् गृह्णन्ति / सोऽपि शिशुर्मातुः शिक्षामवधारितवान् / ततःप्रभृति तथैव कर्तु लग्नः / किञ्च चौरकुले स एव पुत्र: प्रशस्यो भवति यो हि स्तेनकर्मणि निपुणो लोकानां धनानि चोरयन कुटुम्बं पुष्णाति / अतो नैमित्तिकोक्त-विपरीतलक्षणलक्षितं पुत्रं बाल्यावस्थायामेव मातापितरौ तथा शिशिक्षाते / अथैकदा श्रीमहावीरस्वामी चतुर्दशसहस्रमुनिभिस्तथा द्विशत्सहस्रसाध्वीभिः सह तत्र राजगृहनगरे समवससार / तस्य समवसरणं चतुर्निकायदेवैः पृथिवीतः साधकोशद्वयोन्नत विहितम् / तन्मध्ये देवतानाङ्कोटिधर्मोपदेशश्रवणेप्सया समागत्य तस्थौ / तथा भव्याशयैर्मनुजादिभिरपि सा परिषद् विभूषिताऽऽसीत् / तत्र द्वादशविधपरिषत्सु शोभिते समवसरणे श्रीमहावीरप्रभुर्धर्मोपदेशं कुर्वन्नवसरप्राप्तदेवाऽधिकारमित्थं वर्णयन्नासीत् / यथाअणिमिसनयणामणकज-साहणा पुप्फदामअमिलाणा। चउरंगुलेण भूमि, न छिवंति सुरा जिणा विति॥१॥ एवमस्या अर्थ:-हे भव्याः! देवानामेतानि लक्षणानि जानीत / तेषां नयनयोनिमेषोन्मेषौ न भवतः / तथा तेषां मनोवाञ्छितं SAREERCORRUCIXXXIST
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy