________________ सूक्त धमेवः पमामस्तकं तथा शोणिताई कृपाणं भूमौ तत्याज / यावन्मे कृतकर्मक्षयो न स्यात्तावन्मया कायोत्सर्ग एव स्थातव्यमिति निमुक्तावली | श्चित्य यत्र स्थले स मुनिः कायोत्सर्ग कृतवान्, तत्रैव गत्वा कायोत्सर्गे निश्चलमनास्तस्थौ। तत्रावसरे तच्छरीरं सुषमाकन्या॥२०॥ IAL शिरच्छेदोद्धृतशोणिते लिप्तमासीत् / तेन लोहितगंधेन वज्रतुण्डाः कीटिकाश्चटिताः, तास्तदङ्गानि क्रमशश्चालनीसन्निभानि कृतवन्त्यः / अत्रार्थे चैषा गाथाधीरो चिलाइपुत्तो, मुइंगलिआहि चालिणि व्व कओ। जो तहवि खज्जमाणो, पडिवन्नो उत्तम अटुं॥ 1 // व्याख्या-धीरसत्त्वसंपनश्चिलातीपत्रः ( मइंगलिआहि ) कीटिकाभिर्मक्ष्यमाणश्चालनीव कृतस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम्, शुभपरिणामापरित्यागादिति हृदयम् / अर्थात कायोत्सर्गे स्थितस्य चिलातीपुत्रस्य देहः कीटिकाभिश्चालनीवत्सहस्रशच्छिद्रः कृतस्तथापि तदङ्ग विह्वलतां नाऽऽपत् / मनोऽपि नैव क्षुब्धं गिरिवि निश्चलतामेव दधौ। ध्यानं न जहौ / तथा कुर्वन्नेव सद्गतियानलक्षणेन शुभध्यानेन मृत्वा देवगति लेभे / ____एतेन दृष्टान्तेन जनरेतदेव सारतया ग्राह्यम् / यत्किल-स्वल्पेनापि तत्त्वज्ञानेन शुद्धश्रद्धावाँश्चिलातीपुत्रो महाक्रूरकर्मापि देवत्वमधिगतवानिति / किञ्च तत्वज्ञानं शुद्धभावेन समाराधयतां मोक्षोऽपि करगतप्रायो भवति / अतो हे लोकाः ! यदि यूयं भवाम्बुधि तितीपथ तर्हि परिपूर्ण ज्ञानं लभध्वं / येन तत्वज्ञानमासाद्य दुस्तरम, संसारसागरमक्लेशेन तरिष्यथ / अथ ज्ञानोपरि रोहिणीयचौरस्य ७-कथानकम् BOSCORREKX-XX // 20 //