________________ वर्तते, एते च मां ग्रहीतुं त्वस्या समागच्छन्ति किङ्करोमि ? एनामपि कथं त्यजामि ? यदि न त्यजामि, तर्हि मम जीवितमपि यास्यति, एवं ध्यायन स समीपागतांस्तानालोक्य कोशात खड्गमाकृष्य तस्याः शिरश्चिच्छेद / तस्याः कवन्धं तत्रैवाऽत्याक्षीत् / केवलं स्रवद्रक्तधारं तस्या मस्तकं करे कृत्वाग्रे चचाल / तेऽपि तत्रागत्य तां पुत्री तथावस्थामालोक्य भृशं शोचन्तस्ततः परावर्तमाना गृहमाययुः / अथाऽग्रे गच्छन् स चिलातीपुत्रः कस्यचन वृक्षस्याऽधः कायोत्सर्गे स्थितं साधुमेकमपश्यत् / तस्मिन् काले स एकस्मिन्करे क्षरद्रक्तधारं मौलिमपरस्मिन् शोणिताक्तं कृपाणं दधान आसीत् / परमागामिशुभभावोदयात्स चौरनायको दुष्टकर्मापि तम्मुनिमेवमनाक्षीत-भो मुने ! मां धर्म बद / तदा स मुनिरेवमचिन्तयत्-अहो! कोऽप्येष शुभपरिणामको जीवोऽस्ति / यत आत्मकल्याणार्थ धर्मा पृच्छति / इति विचिन्त्य स मुनिस्तस्मै ' उपशमविवेकसंबरा धर्माः सन्ति / इत्युपदेशं दत्वा गगनमार्गेणाचलत् / तत्रावसरे तस्य तथाविधश्चमत्कारं वीक्ष्य मनसि दध्यौ-अहो ! कोऽप्यसौ चमत्कारी महाविद्वान् दृश्यते / यदयमाकाशमार्गेण गच्छति, इतरे तु पृथिव्यामेव चलन्ति। परमनेन ये " उपशमविवेकसंवरा धर्मा दर्शिता इति" तदर्थो मया विचारणीय इति विचारयन् स चौरनायक उपशम इत्यस्य क्रोधो जेतव्यः-यथा क्रोधोपशान्तिर्भवेत्तथा विधेय इति ज्ञातवान् / ततश्च स तदानीमेव मनसि पश्चात्तापमकरोत् / अहो ! क्रोधवशादेवाऽहमीदृशमनाचारं स्त्रीघातात्मकमकार्षम् / यदि मे क्रोधो नाभविष्यत्तहि नरकगतिदायिनीयं स्त्रीहत्या कदापि मम नैवाभविष्यत् / अतोऽद्यप्रभृति क्रोधो नैव कर्तव्य इति निश्चितवान् / तथा विवेकोऽपि मम नास्ति, विवेकहीनो जनः पशुरुच्यते / मयापि पशुवदेव तत्कृतम् / इत्येवं विचारयता तेन चौरेणाऽऽश्रवद्वारोपरोधः, संवरशब्दस्यार्थ इत्यबोधि—अतो मया यावत् संवरो न विहितस्तावन्मे सर्व विफलमेवास्ति / अथैवं विचार्य स चिलातीपुत्रः करधृतसु 24