________________ गाथाप्रसादेनैव यवराजर्षिर्जीवितोऽभूत् / हे राजर्षे ! ज्ञानमाहात्म्यं कीदृशमिति पश्य, यतस्त्वं ग्राम्योक्तवचनवलादेव जीवनत्राऽऽगतोऽसि, परानप्युपचकर्थ / विशिष्टविद्यावाँस्तु स्वस्य परस्य चाधिकमुपकरोति / तत्र किमाश्चर्य इत्येवं गुरुणा भणितो यवराजर्षिर्गुरूक्तं सर्वमनुमोदयश्चिरञ्चारित्रम्परिपाल्य स्वायुःक्षये मृत्वा वैमानिको देवोऽभूत् / एतेन दृष्टान्तेन भविकजनरेतज्ज्ञानमवश्यमेव ग्राह्यम् / यहि अज्ञोक्तेन पद्येन लोकोपकरणमभूत, तर्हि येनाधिकं ज्ञानमर्जितमस्ति, स स्वकीयम्परकीयञ्च किलैहिकमामुमिकँश्च श्रेयो विधातुमर्हति / इति हेतोः सबैरैव भव्यैर्ज्ञानार्जने यतितव्यम्, ज्ञानस्यैकेनापि चरणेन लाभोऽभूत् / तत्रोपशमायुपरि चिलातीपुत्रस्य ६–दृष्टान्तः___ यथा-भवान्तरे चिलातीपुत्रो ब्राह्मणो विद्वानभिमानी जात्यहङ्कारवांश्वासीत् / तेनैकदा राजसभायामीदृशी प्रतिज्ञाकारि, यो मां शास्त्रवादे जेष्यति तस्याहं शिष्यो भविष्यामीति / अथान्यदा कश्चिन्महाविद्वान जैनमुनिस्तत्रागतः। स राजसभाङ्गत्वा तेन सह शास्त्रार्थ कृत्वा पर्यन्ते च तम्पराजितवान् / ततः स प्रतिज्ञानुसारात्तस्य मुनेः शिष्योऽभवत् / परन्तु ब्राह्मणतया स दीक्षितोऽपि मलादिपरीषहं सोढुं नो शक्नुयात् / अपितु तत्र घृणामकरोत् / लोकसमक्षमेवमवोचच्च-अहो ! कीदृशो धर्मः ? यत्र स्नानादि. शुद्धिरपि न विधीयते / इत्थश्चारित्रम्परिपाल्य स्वायुः सम्पूर्णीकृत्य च मृत्वा स देवो जातः। ततश्युत्वा पूर्वजन्मनि मलादिपरीपहघृणाकरणोदिताशुभकर्मावशेषतया राजगृहनगरे धनावहश्रेष्ठिनो गृहे चिलातीनाम्नी काचन तस्य दासी, तस्याः कुक्षौ | पुत्रत्वेनावततार / तस्य नाम लोकश्चिलातीपुत्र इति धृतम् / या चैतस्य ब्राह्मणजन्मनि भार्याऽऽसीत, सा च स्वभार वशी